________________ 424.] षष्ठोऽध्यायः। प्राप्तिमावहतीति विशेषः / / [424] एवं विष्वपि सत्येषु तथैवान्वयधीविधा। द्वाभ्यां धर्मज्ञानक्षान्तिधर्मज्ञानेक्षणाभ्यां समनन्तरं रूपारूप्यावचरे दुःखेऽन्वयज्ञानक्षान्त्यन्वयज्ञानेक्षणमुत्पद्यते / एवं त्रिष्वपि सत्येषु द्रष्टव्यम् / अत्र पुनः ____Also cf. दुःखे धर्मज्ञानं कतमत् ? क्षान्त्यनन्तरं येन ज्ञानेन पूर्वोक्तेभ्यः क्लेशेम्यो विमुक्ति साक्षात्करोति / तस्मादुच्यते दुःखे धर्मज्ञानमिति / Asm. p. 66. दुःखधर्मज्ञानं विमोक्षमार्ग: / Aam. p. 85. V. infra; Adv. karika 477. 9 The Kosakara deals with this point in detail :-Cf. FFATT ga: क्षान्तयो ज्ञानानि चावश्यं भवन्ति ? क्षान्तिज्ञानान्यनन्तर्यमुक्तिमार्गा यथाक्रमम् / अनन्तर्यमार्गाः क्षान्तयः क्लेशप्राप्तिविच्छेदं प्रत्यन्तरयितुमशक्यत्वात् / विमुक्तिमार्गास्तु ज्ञानानि / क्लेशप्राप्तिविमुक्तानां विसंयोगप्राप्तिसहोत्पादात् / अत उभयैरवश्यं भवितव्यम् / द्वाभ्यां चौरनिष्कासनकपाटपिधानवत् / ". Akb. VI. 27 cd. प्रानन्तर्यमार्गेणेति "अनन्तरभवो अनन्तरमार्गो वा आनन्तर्यम् / तस्य मार्गा आनन्तर्यमार्गाः / विमुक्तिमार्गा इति विमुक्ती मार्गा विमुक्तिमार्गाः / क्लेशविमुक्त्यवस्थामार्ग इत्यर्थः / द्वाभ्यां चौरनिष्कासनकपाटपिधानवदिति / यथा द्वाभ्यामेकेन चौरो निष्कास्यते, द्वितीयेन तदप्रवेशाय कपाट: पिधोयते / एवमानन्तर्यमार्गेण क्लेशचौरो निष्कास्यते तत्प्राप्तिच्छेदतः। विमुक्तिमार्गेण च विसंयोगप्राप्तिकपाटं पिधीयते वर्तमानीकरणतः / "Sakv. p. 5 ! 9. See Aaa. p. 177. 2 Cf. शेषे दुःखान्वयक्षान्तिज्ञाने सत्यत्रये तथा / Ak. VI. 26 cd. __3. Cf. प्रथमतो [दुःखेऽन्वयज्ञानक्षान्त्या] धर्मतत्त्वज्ञानाद्धर्मज्ञानम् / तदन्वयादूर्व दुःखालम्बनमन्वयज्ञानम् / तथैवानुगमनात् / Akb. VI. 26 c. Also cf. आनन्तर्यमार्गोऽन्वयज्ञानक्षान्तिः विमुक्तिमार्गोऽन्वयज्ञानं चेति"। Aam. p. 85. दुःखेऽन्वयज्ञानशान्तिः कतमा ? दुःखे धर्मज्ञानक्षान्त्यां दुःखे धर्मज्ञाने च प्रत्यात्म प्रत्यक्षानुभाविनी अनास्रवा प्रज्ञा उत्पद्यते यदुत्तरमन्वय एष आर्यधर्माणाम् / 'दुःखे अन्वयज्ञानं कतमत् ? तदनन्तरमनास्रवं ज्ञानमुत्पद्यते / येन ज्ञानेन दुःखे अन्वयज्ञानक्षान्तिमुपधारयति / Asm. p. 66. यतो खो भिक्खवे अरियसावको एवं जरामरणं पजानाति"। निरोधगामिनि पटिपदं पजानाति / इदमस्स धम्मे नाणं / सो इमिना धम्मेन दिछैन' ''अतीतानागते नयं नेति-ये खो केचि अतीतमद्धानं... अनागतमद्धानं समणा वा ब्राह्मणा वा जरामरणं""अभिजानिस्सन्ति सब्बे ते एवमभिजानिस्सन्ति सेय्यथापि एतरहि / इदमस्स अन्वये नाणं /