________________ षष्ठाध्याये द्वितीयपादः। "तस्येदानीं योगिनः स्मृत्युपस्थानादिषु कुशलमूलेषु दृष्टपूर्वं ज्ञेयं सत्याकारव्यवस्थानेनानुचितश्रुतचिन्तामयाकारसमुदाचारण्या(न्या) येण(न) [393] निर्मथ्नतः कमेना(णा) स्य दुःखसत्यभवारणिम् / श्रद्धावीर्यसहायस्य तत्त्वज्ञानानलाथिनः // [394] आकारपतितं ज्ञानं ततः शमनियामकम् / / ___ भावनामयमूष्माख्यं जायते सानुवर्तकम् // ' तत्खलष्मगतं प्रकर्षितत्वात षोडशाकारम्, प्रतिसत्यं चतुराकारत्वात्, सामान्यं धर्मस्मृत्युपस्थानं भविष्यस्यार्यमार्गाग्नेनिमित्तभूतं धूमाग्निवत् / तस्मिश्च लब्धे शमः३ प्रत्यासन्नीभवति / अतस्तत् 'शमनियामक भावनामयम्' इति / ध्यानसंवराश्रितसमाधिबलेन दृढीभावाच्चित्तं भावयति चम्प. कपुष्पतिलतैलवदिति / 'सानुवर्तक' च पञ्चस्कन्धस्वभावं नैरात्म्यबुद्धिपरितोषाच्चानुस्कन्धशः प्रसाद उत्पद्यते--स्कन्धमात्रकमेवेदं सत्वायदृष्टेर्वस्तुभूतं नावात्मास्त्यात्मीयं वा / . [395] ततस्तथैव मूर्धानो मिथ्यादृष्ट्युपघातिनः / __ ऊष्मभ्योऽधिकसामर्थ्याद्रत्नश्रद्धाविधिनः // . तद्वं ततो मूर्धा नस्तथैव षोडशाकाराः / तेषां पुनरयं विशेषः / 1f. तत ऊष्मगतोत्पत्तिः तस्माद्धर्मस्मृत्युपस्थानादेवमभ्यस्तात् क्रमेणोष्मगतं नाम कुशलमूलमुत्पद्यते / ऊष्मगतमिवोष्मगतम् / क्लेशेन्धनदहनस्यार्यमार्गाग्नेः पूर्वरूपत्वात् / तच्चतुः सत्यगोचरम् / Ak. VI. 17 ab. ____2 ऊष्मगतमित्यूष्मप्रकारं कुशलमूलम् / प्रकर्षकत्वादिति प्रारम्भकत्वादित्यर्थः / Sakv. P. 33. ऊष्मा कतमः / सद्धर्मविनयेऽल्पश्रद्धासमादानम् / Jps p. 7. V. infra, Adv. karika, 421. ab, notes. 3 see Siksha, p. 119. 4 Cf. षोडशाकारमूष्मभ्यो मूर्धानस्तेऽपि तादृशाः / AK. VI. 17 cd. 5 मृदुमध्याधिमात्रक्रमाभिवृद्धेम्य ऊष्मभ्यो मूर्धनि उत्पद्यन्ते। यादृशा उष्मणश्चतुःसत्यालम्बनाः षोडशाकाराश्च / उत्कृष्टतरत्वात्तु नामान्तरं चलकुशलमूलमूर्धत्वात् मूर्धानः / 21