________________ 320 अभिधर्मदीपे ... [390. अथ कस्मादिह शून्याकारो न देशितः ? ' तदुच्यते[390] स्वभावेनाविशून्यत्वा[द्] धर्ममुद्रा नु(उ) दाहृते (ता) / तदुक्त्या च तदुक्तत्वाच्छून्याकारो ण(न) देशितः // न खलु संस्काराः स्वभावेन शून्याः पथिव्यप्तेजोवायुप्रभृतीनां काठिन्यादिलक्षणस्य धत्यादिक्रियायाश्च प्रत्यक्षत्वात् / रागादीनां दोषाणां श्रद्धादीनां च गुणानां चित्तमाल्यशुद्धिकरणसामर्थ्यात् / तेषां च सामर्थ्य यथा द्रव्याणां हरीतकीचित्रकदन्तीप्रभृतीनां रसवीर्यविपाकप्रभावादिदर्शणा (ना)त सस्वभावप्रभावाः सर्वधर्माः धर्ममुद्रायाश्च 'शून्याकारो' णो (नो)क्तः / तस्मादिहापि नोच्यते / अथवा 'तदुक्त्या च तदुक्तेः।' अनात्माकारो क्त्या च शून्यताप्युक्ता भवति / / तदेवं नैरात्म्ये स्थिरमतिः [391] गोत्रद्वारसमूहादीन् धात्वादीनां यथायथम् / स्वसाधारणचिह्नाभ्यां सदतोपपरीक्षते / / धात्वायतनस्कन्धेषु स्वसामान्यलक्षणपरिच्छिन्नेषु [392] प्रतिस्कन्धं ततस्तस्य स्वाभाव्यादिषु तत्त्वतः / / क्रमेण जायते पश्चात्कौशलं स्थानसप्तके / "रूपं यथाभूतं प्रजानाति रूपसमुदयं रूपनिरोधं रूपनिरोधगामिनी प्रतिपदं रूपस्यास्वादं रूपस्यादीनवं रूपस्य निःसरणमेवं यावद्विज्ञानस्य / " उक्त हि भगवता-सप्तस्थाने कुशलो भिक्षुः त्रिविधार्थोपपरीक्षी क्षिप्रमेवास्रवक्षयं करोति"२ इति // अभिधर्मदीपे विभाषाप्रभायां वृत्तौ षष्ठस्याध्यायस्य प्रथमः पादः // 1 This discussion is not found in akb. V. supra, pp. 262 ff. 2 Cf. सत्तट्ठानकुसलो भिक्खवे भिक्खु तिविधूपपरिक्खी इमस्मि धम्मविनये केवली बुसितवा उत्तमपुरिसो ति वुच्चति / कथं च भिक्खवे भिख्खु सत्तट्ठानकुसलो होति ? इध भिक्खवे भिक्खु रूपं पजानाति, रूपसमुदयं "रूपनिरोधं रूपनिरोधगामिनि पटिपदं"रूपस्स अस्सादं "रूपस्स आदीन"" रूपरस निस्सरणं पजानाति / वेदनं "सच"संखारे ""विज्ञाणं "पजनाति / " कथं च भिक्खवे भिख्खु तिविधूपपरिक्खी होति / इध भिक्खवे भिख्खु धातुसो उपपरिक्खति / प्रायतनसो उपपरिक्खति। पटिच्चसमुष्पादसो उपपरिक्खति। S. III. pp. 61-65.