________________ 306 अभिधर्मदीपे [371 [371] उपक्लेशास्तु विज्ञेयाः संरम्भाचा यथोदिताः / ___सर्वे वा चैत साः क्लिष्टाः संस्कारस्कन्धसंज्ञिताः // ' ये तावत्खलु क्लेशा उपक्लेशा अपि ते चित्तोपक्लेशनात् / ३इह तु पर्यवस्थानक्लेशमलसंगृहीताः क्षुद्रकवस्तुकोद्दिष्टा वेदितव्याः। येऽपि चान्ये चैतसिकाः संस्कारस्कन्धसंगृहीताः तेऽप्युपक्लेशा इत्याख्यायन्ते // 3 के पुनस्ते क्लेशमलाः कानि वा पर्यवस्थानानि ? तत्र तावत्-- [372] मूल'क्लेशमलास्त्वन्ये षडुपक्लेशसंज्ञिताः / त इमे उच्यन्ते शाठ्योपनाहप्रदाशमायामदविहेठनाः // 1v. supra, p. 76, n. 3. For upaklesa see M. sutta 7, MA. I. p. 233. 235 and Khuddakavatthu-Vibhanga, Vbh. pp. 345-392. Cf. येऽप्यन्ये चतस्याः क्लिष्टा संस्कार स्कन्धसंज्ञिताः। क्लेशेभ्यस्तेऽप्युक्लेशास्ते तु ने क्लेजसंजिताः // Ak. v. 46. 2 Cf. ये क्लेशास्ते उपक्लेशा अपि भवन्ति / उपक्लेशास्तु न क्लेशाः / क्लेशान स्थापयित्वा तदन्यः क्लिष्टः संस्कारस्कन्धसंगृहीतः सर्वश्चैतसिको धर्मः। स पुनः कतमः / षड्रागादीन् क्लेशान् स्थापयित्वा क्लिष्ट: संस्कारस्कन्धसंगृहीतः क्रोधादिकश्चैतसिको धर्मः। अपिः खलु रागो द्वेषो मोहश्च चैतसिका उपक्लेशा उच्यन्ते / .. Ash. p. 47. 3-3 Cf. येऽप्यन्ये क्लेशेभ्यः क्लिष्टाः धर्माः संस्कारस्क घसंगृहीताश्चैतसिकास्त उपक्लेशास्ते पुनर्ये क्षुद्रकवस्तुके पठिताः / इह तु पर्यवस्थानक्लेशमलसंगृहीतानेव निर्देश्यामः / Akb. v. 46. 4 ये क्षुद्रकवस्तुके पठिता इति / क्षुद्रकवस्तुके प्रवचनभागे ये पठिताः। न तु चेतनादय एवेत्यभिप्रायः। तद्यथा अरतिविजृम्भिका चेतसो लीनत्वं तन्द्री भक्षेऽसमता नानात्वसंज्ञा अमनसिकारः कायदुष्ठुल्यं शृङ्गी भित्तिरीका अनार्जवता अमार्दवता अस्वभावानुवर्तिता कामवितर्को व्यापादवितर्को विहिंसावितर्को ज्ञातिवितर्को जनपदवितर्कोऽमरवितर्को वमन्यना-प्रतिसंयुक्तो विर्तकः कुलोदयताप्रतिसंयुक्तो वितर्कः शोकः दुःखं दौमनस्यमुपायास इति / Saks. p. 493. The Kshudrakavastu corresponds to the Khuddhavatthu-Vibhanga, Vbh, pp. 345-392. The latter enumerates a long list of evil states, and gives a detailed commentary on them. See VbhA. pp. 465-516. and Milinda, p. 283. 5 Cf. अन्ये च षट् क्लेशमला: माया शाठ्यं मदस्तथा। प्रदाश उपनाहश्च विहिंसा चेति रागजी // Ak. V. 49cd, 50 ab.