________________ 372.] पञ्चमोऽध्यायः। 307 तत्र चित्तकौटिल्यं शाठ्यं चित्तस्यान जुता वक्रीभावः / ' उपनाहः२ प्रतिघनिष्यन्दो वैरानुबन्धकृद्रन्घ्रावधानता। सन्तोष्यमानस्याप्यधर्मदृढग्राहिता प्रदाशः / 3 पराभिसन्धानाय मिथ्योपदर्शनकारी परवञ्चना मायाः (या)। चित्तस्मयो मदः। सतुरूपकुलबलभोगयौवनारोग्यपरिजनसंपत्तिसंरागजः प्रमादास्पदं विविधेन्द्रियविभ्रमोत्पादजनकः / सत्त्वव्यापादो विहिंसा विहेठनेत्यर्थान्तरम् / उक्ताः षट् क्लेशमलाः / / 1 Cf. कतमं साठेय्यं ? "यं तत्थ सठता कक्करता"परिक्खत्तता"I Vbh. p. 358. शाठ्यं स्वदोषप्रच्छादनोपायसंगृहीतं चेतसः कौटिल्यम् / शाठ्यं म्रक्षाद्भिद्यते। स हि स्फुटमेव प्रच्छादयति न काक्वा / ' 'Tob. 14. चित्तकौटिल्यं शाठ्यं येन यथाभूतं नाविष्करोति विक्षिपत्यपरिस्फुटं वा प्रतिपद्यते / Akb. v. 49 cd. 2 Cf. पुब्ब कालं कोधो अपरकालं उपनाहो / 'दळ्हीकम्मं कोधस्स अयं वुच्चति उपनाहो। Vbh. p. 493. आघातवस्तुबहुलीकारः उपनाहः। Akb. v. 49 cd. ''प्रतिघांशिक एव वैराशयस्यानुत्सर्गः / Asm. p. 8. 3Cf. कतमो पलासो ? यो पलासो' 'विवादद्वानं युगग्गाहो अप्पटिनिस्सग्गो अयं वुच्चति पलासो / Vbh. p. 357. सावद्यवस्तुदृढग्राहिता प्रदाशो येन न्यायसंज्ञप्तिं न गृह्णाति / Akb. v. 49 cd. प्रदाशः कतमः ? प्रतिघांशिकः क्रोधोपनाहपूर्वङ्गमश्चेतस आघातः / Asm. p. 8. प्रदाशश्चण्डवचोदाशिता / "मर्मघट्टनयोगेन दशनशीलो दाशी तद्भावो दाशिता।""अयं च क्रोधोपनाहपूर्वकरचेतस आघातस्वभाव इति प्रतिघांशिक एव न द्रव्यतो भिद्यते / Tob. 14. 4 Cf. कतभा माया ? इधेकच्चो कायेन वाचाय "मनसा दुच्चरितं चरित्वा, तस्स पटिच्छादनहेतु पापिकं इच्छं पतिदहतिया एवरूपा माया / Vbh. p. 357. माया परवञ्चना"। इयं च सहिताभ्यां रागमोहाभ्यामभूतान् गुणान्प्रकाशयतस्तयोः समुदितयोः प्रज्ञप्यत इति "प्रज्ञप्तित एव न द्रव्यतः। Tob. 14. ..Cf. यः स्वधर्मेष्वेव रक्तस्य दर्पचेतसः पर्यादानात्कुशलधर्मक्रियाभ्यः प्रतिसंहारः मद इत्याचार्यसंघभद्रः / Sakv. p. 140. Also cf. मदः स्वधर्म रक्तस्य पर्यादानं तु चेतसः। Ak. II. 33 cd. ""संप्रहर्षणविशेषो मद इत्यपरे। Akb. II. 33 cd.-संप्रहर्षविशेषो मद इति क्लिष्टसोमनस्यमभिप्रेतम् / तदेतनेच्छन्ति वैभाषिकाः। यस्मात्सौमनस्यमाद्वितीयाद् ध्यानात्, मदश्च त्रैधातुकः / Salv. p. 141. Cf. मदः स्वसंपत्तौ रक्तस्योद्धर्षश्चेतसः पर्यादानम् / ... उद्धर्षो हर्षविशेषः / "Tvb. 14. मदः कतमः ? सर्वो मद: मादः उन्मादः क्षोभः संक्षोभः चित्तस्तब्धतानुविधायो चित्तात्मग्राहः / इति मदः। मानः कतमः ? सर्वो मानः 'चित्तोत्थानाश्रयाश्चित्तात्मग्राहः / मदमानयोः को भेदः ? यः परान् अनुद्दिश्य आत्मधर्मानुरक्तस्य चित्तस्तब्धतानुधावनलक्षणः स उच्यते मदः। यः परानुद्दिश्य आत्मोत्थानाश्रयणलक्षणः स उच्यते मानः। इति भेदः / Jps. p. 55. V. supra, p. 84,n.6. The Vibhanga (p.345) enumerates 28 different kinds of mada.