________________ 370. [ . पञ्चमोऽध्यायः। 305 बन्धनम् / ' एभिस्त्रधातुकाः सत्त्वाः संसारचारके बद्धाः यथायोगम् / कस्मात्पुनरेतानि बन्धनानीत्युक्तानि ? तदुच्यते त्रिवेदनानुशायित्वाद् दृढत्वाबन्धनत्रयम् // त्रिवेदनावशात्खलु बन्धनत्र यमुक्तम् / तत्र सुखायां वेदनायां रागो. ऽनुशेरते / दुःखायां द्वेषः / 3 अदुःखासुखायां मोहः / एते च त्रयो मूलक्लेशा: षड्विज्ञानभौमाः पञ्चप्रकाराः / तस्मादेते दृढत्वाद् बन्धनशब्देनोक्ताः // पुनरन्ये भगवता सूत्रे[370] द्विपक्षग्रन्थनाद् ग्रन्थाश्चत्वारः समुदाहृताः / अभिध्याख्यास्तथा द्वेषः परामर्शद्वयं तथा // तत्र गही अभिध्यया विषयेषु ग्रथितस्तद्वयाघातकर्तृषु विवादमारभमानो द्वेषेणानुबध्यते / प्रव्रजितः शीलव्रतपरामर्शग्रथितस्तदपवादश्रवणादिदमेव सत्यमिति सत्याभिनिवेशपरामर्शन दृष्टिपरामर्शाख्येन बध्यते / इति चत्वारो भवन्ति / / उक्ता: क्लेशाः / 1 रागो भन्ते बन्धनं दोसो बन्धनं मोहो बन्धनं / S. IV. p. 292. बन्धनं त्रिविधम् / रागबन्धनेन सत्त्वानां विपरिणामदुःखतायां बन्धनम् / द्वेषबन्धनेन सत्त्वानां दुःखदुःखतायां बन्धनम् / मोहबन्धनेन सत्त्वानां संस्कारदुःखतायां बन्धनम् / Asm p. 46. See Aam. p. 81 and Yogasutra, II. 7--8. 2 Cf. विद्वशाद्वन्धनत्रयम् / Ah. v. 45 d. 3 v. supra, p. 48, n. 6. 4 Cf. अदुक्खमसुखाय हि वेदनाय अविज्जा अनुसेति / Netti. p. 32. 5 After this the Kosakara says :-न तथा रागद्वेषौ / स्वसान्तानिकालम्बनतो वा नियमः। Akb. v. 45_d.-ननु च रागद्वेषावप्यदुःखासुखायां यथायोगं तथैवानुशयाते / कस्मान्मोह एवोच्यते इत्याह "रागद्वेषावप्यनुशयाते / न तु तथा यथा मोहः। मोहो ह्यपटुत्वादपद्व्यामदुःखसुखायां वेदनामनुकूलत्वात्सुतरामनुशेत इति / स्वसान्तानिकसुखाद्यनुभूतिसामर्थ्यात्तथा नियमः / अपरे तु व्याचक्षते""Saks. p. 493. 6 This topic is not found in Akb. Cf. चत्तारो मे भिक्खवे गन्था / अभिज्झा कायगन्थो, व्यापादो""सीलब्बतपरामासो""इदं सच्चाभिनिवेसो कायगन्थो।'S. IV. p. 59. Also cf. प्रन्थाश्चत्वारः / "समाहितमनःस्वभावस्य कायस्य परिग्रन्थनार्थेन ग्रन्थो वेदितव्यः / तेन किं भवति / चतुर्विध चित्तं विक्षिप्यते / Asm. p. 48.