________________ 368.] पञ्चमोऽध्यायः। [367] द्वयक दृग्धेयकार्योक्तर्दृष्टिहेयमुखग्रहात् / सर्वदृग्धेयभाक्त्वेऽपि त्रयमेतदुदाहृतम् // ' प्रवर्तकग्रहणे खलु प्रवर्त्यमपि गहीतं भवति प्रदीपालोकवत् / तत्र सत्कायदृष्ट्या तत्प्रवर्तिताऽन्तग्राहदष्टिर्गहीता। शीलव्रतपरामर्शण दृष्टिपरामर्शः प्रवर्तितः। विचिकित्सया मिथ्यादृष्टिः प्रवर्तिता। अतो हेतु' ग्रहणात्कार्यग्रहणं वेदितव्यम् / अथवा त्रिविधा क्लेशाः-एकप्रकाराः, द्विप्रकाराः, चतुष्प्रकाराश्च / ' तत्र सत्कायदृष्टया एकप्रकारा गृहोताः। शीलव्रतपरामर्शेन द्विप्रकाराः / विचिकित्सया चतुष्प्रकाराः गहीता भवती (न्ती)ति / / वयं ब्रूमः-३ . [368] सर्वानर्थनिदानत्वान्मार्गप्रत्यर्थिभावतः / तथ्यो हाविधुरत्वाच्च त्रिसंयोजनदेशना // 3 सत्कायदष्टिः खलु सर्वानर्थमलानां क्लेशस्य च भवत्रयस्य च मूलम् / अतस्तयोत्खातया सर्वानर्थवक्षस्योत्सादनं भवति / मार्गस्य च सद्भूतस्य प्रत्यथिभूतः कुमार्गावलम्बी शीलव्रतपरामर्शः। तेन प्रहीणेन सन्मार्गेण मोक्षपुरप्रवेशो भवति / सम्यग्दृष्ट्यादि मार्गप्रतिपत्तिप्रतिबन्धभूता च विचिकित्सा / यथाभूतं प्रजानाति / त्रीणि चास्य संयोजनानि प्रहीणानि भवन्ति परिज्ञातानि / तद्यथा सत्कायदृष्टिः शीलवतपरामर्शो विचिकित्सा च / स एषां त्रयाणां संयोजनानां प्रहाणात् स्रोतापन्नो भवत्यविनिपातधर्मा सम्बोधिपरायणः सप्तकृद्भवपरमः सप्तकृत्वो देवांश्च मनुष्यांश्च संसृत्य सन्धाय दुःखस्यान्तं करिष्यतीति / " सर्वमेतद्वक्तव्यं स्यात् / भवेदित्यर्थः / Saks. p. 492. Cf: इधेकच्चो पुग्गलो तिण्णं संयोजनानं परिक्खया सोतापलो होति अविनिपातधम्मो नियतो सम्बोधिपरायणो, सो सत्तक्खत्तुं देवे च मनुस्से च सन्धावित्वा संसरित्वा दुक्खस्सन्तं करोति / P. Paniatti, p. 15. - जानाति भन्ते भगवा "अयं पुग्गलो यथानुसिठं तथा पटिपज्जमानो, तिण्णं संयोजनानं परिक्खया सोतापनो भविस्सति , अविनिपातधम्मो नियतो सम्बोधिपरायणो ति / Digha, xxviii. 13. . 1 Cf. मुखमूलग्रहात् त्रयम् / Ak. v. 43 d. 2 त्रिप्रकाराः किल क्लेशा इति / दर्शनहेया इहाधिकृताः। एकप्रकाराः सत्कायान्तग्राहदृष्टयः दुःखदर्शनमात्रप्रहेयत्वात् / द्विप्रकाराः शीलव्रतपरामर्शः। चतुष्प्रकाराः विचिकित्सामिथ्यादष्टिदष्टिपरामर्शाः। ये त रागादयो दर्शनहेयाः। तेऽपि तदालम्बनत्वात् गृहीता एवेति शक्यं वक्तुमिति / Sakv. p. 492. This view is not referred to either by the Kosakara or Yasomitra.