________________ 302 अभिधर्मदीपे [366. [366] प्राद्यन्त्ये द्वे दृशौ कांक्षा (काङ्क्षा) कामच्छन्दो द्विरेव यः / तत्र पञ्च संयोजनान्यवरभागीयानि / तद्यथा-सत्कायदृष्टिः शीलव्रतपरामर्शो 'विचिकित्सा कामच्छन्दो व्यापाद इति / एते हि कामधातुहितत्वादवरभागीया इत्युच्यते(न्ते) / प्रवरा हि कामधातूरेतानि च तदनुगुणानि / यस्मात् द्वाभ्यां कामानतिकान्तिः पुनराण (न)यनं त्रिभिः // ' कामच्छन्दव्यापादाभ्यां कामधातुं नातिकामति / सत्कायदृष्ट्यादि. भिस्त्रिभिरतिक्रान्तोऽपि पुनरावर्तते दौवारिकानुचर साधर्म्यात्' / अन्ये पुनराहुः-त्रिभिः सत्त्वावरतां नातिकामति पृथग्जनत्वम्, द्वाभ्यां धात्ववरतां कामधातुमिति // 2 ३यदा खलु स्रोतआपन्नस्य पर्यादाय त्रिसंयोजनप्रहाणे षट् क्लेशाः प्रहीणाः किमर्थं तिस्रो दृष्टीरपहाय त्रयाना(-अय)मेवाह सत्कायदृष्टी (ष्टि) शीलव्रतपरामर्श विचिकित्सां च ?3 तदुच्यते ___ पञ्चमानि भिक्खवे उद्धंभागियानि संयोजनानि ।""रूपरागो, अरूपरागो, मानो, उद्धच्चं, अविज्जा I Ang. IV. p. 460. ___ See Aig. I. p. 232, II p. 238, IV. p. 459; Jps. pp. 67-8. and A Buddhist Manual of Psychological Ethics, p. 302, n. 1. 1 द्वाभ्यां कामानतिक्रम इति तदप्रहाणे कामधात्वनतिक्रमात् / दौवारिकानुचरसाधाविति / दौवारिकसधर्मणो कामच्छन्दव्यापादो। तौ हि कामधातुबन्धनागारान्नि:क्रमणं न दत्तः / दौवारिकत्वात् / अनुचरसधर्माणः सत्कायदृष्टयादयः / 'Saks. p. 49 !-2. 2 त्रिभिः सत्त्वावरतामिति / पृथग्जनत्वलक्षणां सत्त्वावरतां सत्कायदृष्टिशीलव्रतपरामर्शविचिकित्सासंयोजनै तिक्रामति / द्वाभ्यां कामच्छन्दव्यापादाभ्याम् / धात्ववरतां कामधातुस्वभावां नातिकामति / नातिवर्तते / आर्येभ्यो ह्यवराः पृथग्जनाः / धातुषु च कामघातुरवरः / तस्मादेव तान्यवरभागीयानि / अपरे योगाचाराः / Saks. pp. 491.2. 3-3 From यदा खलु to विचिकित्सां च is identical with Akb. v.43.c. -पर्यादाय त्रिसंयोजनप्रहाणादिति / निरवशेषतः सत्कायदृष्टिशीलव्रतपरामर्शविचिकित्सासंयोजनप्रहाणादित्यर्थः / षट् क्लेशाः प्रहीणा इति / पञ्च दृष्टयो विचिकित्सा च / न तु रागादय उक्ता: सावशेषत्वात् / त्रिस्रो दृष्टीरपहायेति / अन्तग्राहमिथ्यादृष्टिदृष्टिपरामर्शदृष्टीः। त्रयमेवाहेति। सत्कायदृष्टिशीलव्रतपरामर्शविचिकित्सात्रयमेवाह / क आह / भगवान् / तथा हि सूत्रे पठ्यते-"कियता भदन्त स्रोतापन्नो भवति ? यतश्च महानामार्यश्रावकः इदं दुःखमार्यसत्यमिति ''इदं दुःखनिरोधगामिनीप्रतिपदार्यसत्यमिति