________________ 294 अभिधर्मदीपे . [357. च्यते। नित्यं च तदालम्बनतो कारित्राकरणात्, तस्मिन्नालम्बने मार्गविदूष. णाकारदूषिते आलम्बनतोऽपि नानुशेत इत्युच्यते / न तु कदाचिन्मुञ्जशीकावदुद्धृत्य शक्यते तस्मात् क्लेशः चित्तात्पृथक्कतुं निर्नाशयितुं वा स्वालम्बनाद्वा विमुखीकर्तुम् / उक्त हि-“यो धर्मो यस्य धर्मस्यालम्बनं कदाचित्स धर्मस्तस्य धर्मस्य नालम्बनम् ? आह-न कदाचित्" इति / अतस्तच्चित्तं सहायभावेन सानुशयं सहायभावस्यापरित्यागात् / न त्वनुशयभावेन सानुशयं तत्रानर्थानुत्पादनात् / कतरत्पुनश्चित्तं सानुशयम् ?2 वैधातुकं प्रत्येकं पञ्चप्रकारम् / पुनः प्रत्येकं द्विधा भिद्यते / सर्वत्रगासर्वत्रगसास्रवा[VI. B. 7. Fol. 115a.] नास्रवालम्बना (न) क्लिष्टाक्लिष्टभेदैः। तत्र दुःखदर्शनप्रहातव्यं सत्कायदृष्टिसंप्रयुक्तम् / तया च सत्कायदृष्टया तत्संप्रयुक्तया चाविद्यया सहायभावेन चानुशयाने च सानुशयम् / शेषैः स्वनिकायिकैः समुदयदर्शनप्रहातव्यश्च सर्वत्रगैरनुशयभावेनैव / शेष!भयथा। एवं सर्वः दुःखदर्शनप्रहात व्यः समुदयदर्शण (न)प्रहातव्यश्च संप्रयुक्तं चित्तं यथायोगमभ्यूहितव्यम् / / निरोधदर्शण (न)प्रहातव्यं मिथ्यादृष्टिसंप्रयुक्तम्। तथैव तत्संप्रयुक्तया चाविद्ययोभयथा। शेषः स्वानिकायिकसास्रवालम्बनः सर्वत्रगैश्चानुशयभा. वेनैव / स्वानिकायिकानास्रवालम्बनैस्तदन्यैश्च नोभयथा / एवमन्य"णि (नि) रोधदर्शनप्रहातव्यः मार्गदर्शनप्रहातव्यश्च यथासंभवं वक्तव्यम् / भावनाप्रहातव्यं रागसंप्रयुक्तम् / तेनैव तत्संप्रयुक्तया. चाविद्ययोभयथा / शेषर्भावनाप्रहातव्यः सर्वत्रगश्चानुशयर्भावनैर्वा / अन्य!भयथा। एवमन्यद्भावनाहेयसंप्रयुक्तमपि यथायोगं वाच्यम्। ___ अक्लिष्टन्तु स्वानिकायिकैः सर्वत्रगश्चानुशया (य) भावेनैव सानुशयमिति // कः पुनरेषामनुष (श) यानां प्रवृत्त्यनुक्रमः ? तदुच्यते / मोहस्तावत् सर्वक्लेशाग्रणी, तस्मात्क्लेशपुरोयायिनः / [357] मोहात्सत्कायदृक्तस्या अन्तग्राहेक्षणं ततः। ___ काङ्क्षामिथ्येक्षणं तस्याः शीलामस्तितो दृशः / / 3 & Quoted in Akb. II. 62. c. See LVPAk. II. p. 307. 2 V. supra, p. 221. 3 Cf. मोहकाङ्क्षा ततो मिथ्यावृष्टिः सत्कायदृक्ततः / ततोऽन्तग्रहणं तस्माच्छीलामशंस्ततो दृशः / / Ak. v. 32. cd, 33 ab.