SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ 356.] पञ्चमोऽध्यायः / 293 तत्र 'एकम्' वीतरागस्योपरिसामन्तकाद्भावनामयम्। 'षड' वीतरागस्य कामावचरं भावना प्रहातव्यं निर्माणचित्तं प्रथमध्यानफलम् / 'पञ्च' स्वभौमानि / 'सप्त वा' उपरिसामन्तकाद्भावनाप्रहातव्यं कुशलं सास्रवम् / 'दश वा' रूपेभ्यः प्रच्युतस्य कामरूपेषुपपद्यमानस्येति // [355] प्रारूप्यधातुजातस्य चित्तानीमानि लक्षयेत् / स्वधातुकानि पञ्चैव च्युतिकाले दशान्यतः // रूपकामेषपपद्यमानस्य तत्रत्यानि दश भवन्ति / स्वानि पञ्च पञ्चान्यतः / गतमेतत् / / इदानीं वक्तव्यम् / अथ यदिदं सानुशयं चित्तमुक्तं तत्कथम् ? इत्यत्राभिधीयते[356] साचिव्यादनुशायित्वाच्चित्तं सानुशयं मतम् / द्विधा वा क्लिष्टमक्लिष्टमेकवैवापदिश्यते // ' द्वाभ्यां खलु प्रकाराभ्यां चित्तं सानुशयमुच्यते। साचिव्यभावेनानुशायित्वेन च / तत्र क्लिष्टं द्वाभ्यां कारणाभ्यां सानुशयं यदप्रहीन (ण)क्लेशम् / अक्लिष्टं पुनरेकधा साचिव्यभावनैवेति / तत्र क्लिष्टं चित्तमनुशयैः संप्रयुक्तरप्रहीणः सानुशयं तदालम्बनैश्चाप्रहीणः / कथमिह योऽनुशयो येन चित्तेन संप्रयुक्तः स खल्वप्रहीन (ण) स्तस्मिश्चित्तेऽनुशेते ?2 यावद्धि तदनुशयानुप्राप्तिविशेषेण सा चित्तसन्ततिर'वष्टब्धा चाधिष्ठिता च भवति, निष्यन्दफलस्य चानागतस्य तस्यां चित्तसन्तती सभागहेतुरुत्पत्तये कृतास्पदो भवति, तावदसावनुशयस्तश्मिश्चेतस्यनुशेत इत्युच्यते। तस्य पुनः क्लेशाशीविषस्य प्राप्तिद्रष्ट्रावभङ्गे कृते विद्यमानोऽपि सन् क्लेशस्तस्मिश्चेतस्यनर्थानुत्पादनात् सन्नपि संप्रयोगतः नानुशेत इत्यु 16. द्विधा सानुशयं क्लिष्टमक्लिष्टमनुशायकैः। Ak. v. 32 ab. क्लिष्टं चित्तमनुशयानैरनुशयैः सानुशयं तत्संप्रयुक्ततदालम्बनराहीणैरननुशयानश्च तत्संप्रयुक्तः प्रहीणैस्तत्सहितत्वात् / अक्लिष्टं तु चित्तमनु शयानरेव तदालम्बनैरप्रहीणैरिति / Akb. v. 32 ab. अनुशयानरननुशयानैश्चानुशयैः सानुशयं क्लिष्टमित्यर्थः / तत्सहितत्वात् सदावस्थितत्वात् / अक्लिष्टं चित्तमनुशयानरेव सानुशयं विवेचयितुं शक्यत्वात् / Saks. p. 484. This topic is dealt with in detail in Adv. The Akb. is very brief. 2 Cf. यैरनुशयैर्यच्चित्तं सानुशयं तेऽनुशयास्तस्मिश्चित्तेऽनुशेरते ? स्युरनुशेरते / येऽनुशयास्तेन चित्तेन संप्रयुक्ता अप्रहीणास्तदालम्बनाश्चापहीणाः ? स्यु नुशेरते / येऽनुशयास्तेन चित्तेन संप्रयुक्ताः प्रहीणास्तदालम्बनाश्च / तदेवं कृत्वा भवति द्विधा सानुशयं क्लिष्टमक्लिष्टमनुशायकैः / Akb. v. 32 ab.
SR No.004384
Book TitleAbhidharmadipa with Vibhasaprabha Vrutti
Original Sutra AuthorN/A
AuthorP S Jaini
PublisherKashi Prasad Jayaswal Research Institute
Publication Year1977
Total Pages660
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy