________________ 292 अभिधर्मदीपे [351. न्द्रियालम्बनं द्वादशविघं चित्तं कतमस्य विज्ञानस्यालम्बनम् ? 'तस्यैव च द्वादशविधस्यारूप्यावचरस्य च भूयो द्विप्रकारस्य दुःखसमुदय [दर्शन] प्रहातव्यस्य / इदं चतुर्दशविधं सुखेन्द्रियालम्बनं३ विज्ञानम् / तत्रारूप्यावचरी दुःखसमुदयदर्शन हेयौ वर्धयित्वा कामावचरा आरूप्यावचराश्च चत्वारो निकायाः, रूपावचराश्च संस्कृतालम्बना अनुशयाऽनुशेरत इति' 'यथायोग'-वचनात्, 'अपि'शब्दाच्च द्रष्टव्यम् // [351] त्रिधातुसंग्रहीतास्तु सकला मनइन्द्रिये / तदालम्बिनि विज्ञाने सर्वसंस्कृतगोचराः॥ मनइन्द्रिये खलु सर्वत्रधातुकाः येऽपि [VI. A. 6. Fol. 114b.] ते निर्वाणालम्बनास्तेऽपि संप्रयोगतः। मनइन्द्रियालम्बनं खलु विज्ञान संस्कृतालम्बनम् / अतस्तत्रा (त्र) संस्कृतालम्बनास्तेऽनुशया अनुशेरते / [352] संस्कृतालम्बना एव परिवृत्त ऽनुशेरते / _ विशेषो द्विःपरावृत्तौ विद्यतेऽत्र न कश्चन // पूर्वनीत्य (त्या) वाऽत्र परिवृत्ते [ऽनुश]यकार्य बोद्धव्यम् / द्विष्परावृत्तेऽप्यत्र न कश्चिद्विशेष इति द्रष्टव्यम् // अधुना षोडशानां चित्तानां कस्य चित्तस्य समनन्तरं कति चित्तान्युत्पद्यन्त इत्युपदिश्यन्ते (ते)। [353] दुःखं दर्शनहेयादेश्चित्ताच्चित्तानि कामिनः / भवत्यनन्तरं षड् वा तस्योद्ध्वं पञ्च पञ्च वा // कामधातूपपन्नस्य दुःखदर्शनहेयादेश्चित्तादनन्तरं, स्वभूमिकानि पञ्च, षष्ठं च भावनाप्रहातव्यं प्रथमध्यानसामन्तकात् / स यदा कामधातौ (तो)श्च्युत्वा रूपधातावुपपद्यते तस्य तत्रत्यानि पञ्च भवन्ति / एवमारूप्येषपपद्यमानस्यारूप्यानि (णि) पञ्च भवन्तीति / / [354] रूपधातूपपन्नस्य चित्तानि तु विनिदिशेत् / एकं वा पञ्च वा षड् वा सप्त वा यदि वा दश // 1.1 From तस्यैव च to अनुशेरत इति is identical with Abb. v. 31 cd. 2 "दर्शनप्रहातव्यस्य in Akb. Ibid. 3 सुखेन्द्रियालम्बनालम्बनं Ibid. 4 The Atb . does not discuss further :-अनया वर्तन्याऽन्यदप्यनुगन्तव्यम् / Ibid. 4 This topic is not discussed in Akb.