________________ 350.] पञ्चमोध्यायः। [347] दुःखेन्द्रिये' तु का माप्तः स्वैरेव सह सर्वगः / तद्गोचरे तु विज्ञाने निकाया अनुशेरते // [348] कामापन्नास्त्रयो रूपा[:] सर्वगाभ्याससंक्षयाः / परवृत्ते तु चत्वारः कामाप्ता अनुशेरते // [349] त्रयो रूपभवादन्त्याद्भावनाहेयसर्वगाः। सकला द्विष्परावृत्तश्चत्वारश्चानुशेरते // [350] सुखेन्द्रिये तदालम्बे चित्त तद्गोचरेऽपि च / ___ कामाद्याप्ताः यथायोगं सर्वगाश्चानुशेरते // तत्र तावत् / सुखेन्द्रियं सप्तविधम् / कामावचरं भावनाप्रहातव्यम्, रूपावचरं पञ्चप्रकारम, अनास्रवं चेति / तदेतत्समासतो द्वादशविधस्य विज्ञानस्यालम्बनं भवति / कामावचरस्य चतुष्प्रकारस्य अन्यत्र निरोधदर्शनहेयात्", रूपावचरस्य पञ्चप्रकारस्य, प्रारूप्यावचरस्य द्वि" प्रकारस्य मार्गदर्शनभावनाहेयस्य [अ] नास्रवस्य च। इदं द्वादशविघं सुखेन्द्रियालम्बनं विज्ञानम् / तत्र यथायोगं कामावचराश्चत्वारो निकायाः रूपावचराः संस्कृतावलम्बनाः, आरूप्यावचरो द्वो निकामी, सर्वत्रगाश्चानुशया अनुशेरत इति / 3 "तत्पुनः सुखेन्द्रियालम्बनं विज्ञानं यस्य चित्तस्यालम्बनं तच्चित्तं सुखेन्द्रिया लम्बनालम्बनम् / तस्मिन् कत्यनुशयाऽनुशेरते ? तत्खलु सुखे 1 See Saks. pp. 483-4 2 The Akb.. gives this only as an illustration : "दिङ्मात्रं दर्शयिष्यामः / सुखेन्द्रियालम्बने विज्ञाने कत्यनुशया अनुशेरत इति प्रश्न आगते विचारयितव्यम् / सुखेन्द्रियं सप्तविधम् / ... . 3.3 From सुखेन्द्रियं सप्तविधम् to अनुशेरत इति is identical with Akb. v.31cd. - 4 कामावचरस्य चतुःप्रकारस्य इति / दुःखसमुदयमार्गदर्शनभावनाप्रहेयस्य / ... Sakv. p. 481. 5 न तु निरोधदर्शनहेयस्य चित्तस्य / तत्र मिथ्यादृष्ट्यादीनां निरोधालम्बनत्वात् / दृष्टिपरामर्शादीनां च स्वनिकायालम्बनत्वात् / तत्र च सुखेन्द्रियाभावात् / तेनोंच्यतेअन्यत्र निरोधदर्शनहेयाविति। Ibid. p. 482. 6 रूपावचरस्य पञ्चप्रकारस्येति / यस्मात् तृतीयध्यानसंगृहीतं पञ्चप्रकारं सुखेन्द्रियं भवति / Ibid. 7 Cf. सुखेन्द्रियालम्बनालम्बने विज्ञाने कत्यनुशया अनुशेरते ? तत् पुनः ... Akb. v. 31 cd.