________________ 29. . अभिधर्मदीपे [344. समाप्तानि षोडशचित्तानि / तेषु चानुशयनिदशः कृतः। अधुना चक्षु रिन्द्रियादीनां वक्तव्यः / ' सोऽयमुपदिश्यते1344] भावनापथहातव्यो निकायः सर्वगैः सह / अनुशेते द्विधात्वाप्तो व्यारूप्याश्चक्षुरिन्द्रिये // चक्षुरिन्द्रिये खलु भावनाहेयाः सर्वत्रगाश्चानुशयाः कामावचररूपावचरा अनुशेरते / एवं यावत्कायेन्द्रिये चक्षुर्धातौ रूपधातौ चक्षुर्विज्ञानधातो यावद्विस्तरेण कायविज्ञानधातौ यावद्रूपस्कन्धे वाच्यम् / अधुना चक्ष रिन्द्रियालम्बने विज्ञाने वक्तव्याः[345] निकायाः कामरूपाप्ताश्चक्षुरिन्द्रियगोचरे। दुःखहेतुदगभ्यासप्रहातव्यास्त्रपस्त्रयः // [346] प्रारूप्या भावनाहेयाः सर्वगाश्चानुशेरते। चक्षुरिन्द्रियालम्बने खलु विज्ञाने कामावचररूपावचराः दुःखसमुदयद[VI. B, 6. Fol 114 a] निभावनाप्रहातव्याः, प्रारूप्यावचराश्च भावनाप्रहातव्याः, सर्वत्रगाश्चानुशेरते। परिवृत्ते तु चत्वारः समद क्षयजिताः॥ चक्षुरिन्द्रियालम्बनालम्बने तु विज्ञाने 'चत्वारो णि(नि)काया अनुशेरते / निरोधदर्शनहेयं हित्वा / तद्धि चक्षुरिन्द्रियालम्बनं विज्ञानं सर्वत्र संप्रयुक्तम् / तदप्यालम्बनं सर्वत्रगाणाम् / एवं त्रयः परावृत्ते / द्विष्परावृत्ते तु चक्षुरिन्द्रियं खल्वालम्बनं दुःखसमुदयधर्मज्ञानक्षान्तिसंप्रयुक्तस्य चित्तस्य / तत्पुनरालम्बनं कामावचरमार्गदर्शनप्रहातव्यम् / मिथ्यादृष्टिविचिकित्साऽविद्या[त] संप्रयुक्तानां विज्ञानानाम् / तेषु विज्ञानेष्वनास्रवालम्बनाः संप्रयोगतः, सास्रवालम्बनास्त्वालम्बनतोऽनुशेरते / एवं चतुर्थो नि कायो वर्धते मार्गदर्शनहेयः / तदेवं सति कामावचराश्चत्वारः, प्रारूप्यावचराश्चत्वारः, सर्वेऽभिसमस्य त्रधातुकाश्चत्वारो भवन्ति। ___ आकाशानन्त्यायतनस्य खलु कुशलस्य चक्षुरिन्द्रियमालम्बनम् / तत्रारूप्याः सर्वत्रगा भावनाहेयाश्चानुशेरते। तत्रापि सर्वत्रगसंप्रयुक्त चेतसि असर्वत्रगा वर्धन्त इति त्रयो भवन्ति / दुःखसमुदयालम्बनज्ञानक्षान्तिसंप्रयुक्तस्य च विज्ञानस्य चक्षुरिन्द्रियमालम्बनम् / तदारूप्यमार्गदर्शनप्रहातव्यस्य मिथ्यादष्ट्यादिसंप्रयुक्त्तस्य विज्ञानस्यालम्बनम्। तत्र तेऽनास्रवालम्बनाः संप्रयोगतः, सास्रवालम्बनाः आलम्बनतः। एवमारूप्यावचरा अपि चत्वारो निकाया भवन्तीति / 9 The Akb. has not discussed this. Only the sukhendriya is explained as an illustration. See Sako. pp. 483-4.