________________ 289 343.] . पञ्चमोऽध्यायः। चत्वारो दुःखसमुदयमार्गदर्शनभावनाहेयाख्याः रूपावचराः, कामावचरास्त्रयः, आरूप्यावचराश्चत्वारो निरोधदर्शनहेय(यं) मुक्त्वा / मार्गाच्च त्रयः / समाप्तं रूपावचरम्। तृतीयवत्परावृत्ते प्रारूप्याद्य निबोधयेत् // [341] स्वे त्रयः कामधात्वाप्ता रूपाप्ताश्च त्रयस्त्रयः / *स्वे त्रयो दुःखसमुदयदर्शण(न)भावनाहेयाः कामाप्ताः एत एव / रूपाप्ताश्च एत एव त्रयः। रूपाप्तवत्परावृत्त द्वितीये पञ्चमे तथा // परावृत्तेऽपि त्रयो णि(नि)रोधमार्गदर्शनहेयौ हित्वा। रूप्यारूप्याश्चत्वारो निरोधदर्शनहेयं मुक्त्वा / / . यथा प्रथमे द्वितीये पञ्चमे च, [342] तृतीये खल्वपि स्वे च सास्रवार्थावलम्बिनः / तृतीयेऽपि खल्वेत एव 'स्वे च सास्रवार्थावलम्बिनः'। . __ परावृत्त स्वधात्वाप्ताः संस्कृतार्थावलम्बिनः // परावृत्ते खलु सर्वेऽऽरूप्यावचरा असंस्कृतालम्बनान्मुक्त्वा / .[343] अन्यत्त्वाद्यवदाख्येयं चतुर्थेऽपि तृतीयवत् / ___ कामावचररूपावचराः पूर्ववदाख्यातव्याः। 'चतुर्थेऽपि तृतीयवत् / ' स्वे सास्रवालम्बनास्त्वत्राधिको भवन्ति / आद्यवत्त परावृत्त विज्ञाने निदिशेद् बुधः / / . परावृत्ते खलु विज्ञाने आद्यवत्कामावचरास्त्रयः, निरोधमार्गदग्घेयौ हित्वा / रूपावचराश्चत्वारः, निरोधदर्शनहेयं मुक्त्वा / अप्रहातव्यधर्मालम्बने विज्ञाने निरोधमार्गदर्शनहेयानास्रवालम्बनसंप्रयुक्तम् (क्त)। तत्र वैधातुकास्त्रयोऽनुशेरते। आलम्बनालम्बनं तु दुःखसमुदयमार्गदर्शनभावनाहेयेन निकायेनालम्बते। निरोधदर्शनहेयेण(न) च सास्रवालम्बनेनालम्ब्यते / तत्र संस्कृतालम्बनाश्चत्वारो निकायाः, निरोधालम्बनं मुक्त्वा / ते हि निर्वाणालम्बने विज्ञाने नाऽनुशेरते, विज्ञानालम्बने तु // 19