________________ 288 अभिधर्मदीपे [337. मुक्त्वा / रूपावचरास्त्रयो दुःखसमुदयदर्शनभावनाहे याः। प्रारूप्याः सर्वत्रगाः भावनाहेयाश्च / समाप्तं कामावचरं विज्ञानम् // रूपाप्ते प्रथमेऽधस्तात् त्रयः स्वे खल्वपि त्रयः॥ [337] आरूप्याः सर्वगाः सार्घ भावनापथसंक्षय[:] रूपावचरे प्रथमे खलु विज्ञाने कामावचरास्त्रयो दुःखसमुदयविसभागधात्वालम्बनाः संप्रयोगतः। असर्वत्रगास्त्वालम्बनतो भावनाहेयाश्च स्वे च त्रयः / एत एवारूप्याः सर्वत्रगा भावनाहेयाश्च / परिवृत्ते त्रयोऽधस्तात् दुःखसमुदयदर्शण (न) भावनाहेयाः / चत्वारश्च स्वधातुतः // मार्गदर्शण (न) हेयाश्च दुःखसमुदयान्वयज्ञानक्षान्तिसंप्रयुक्त विज्ञाने // [338] प्रारूप्याप्ताश्च चत्वारो रिण(नि) काया अनुशेरते। दुःखसमुदययोः [VI. A, 30 Fol.113 b.] मार्गदर्शण(न)मिथ्यादि(द)ष्टयादिसंप्रयुक्तचित्तालम्बनत्वात् / तद्वदेव द्वितीयेऽपि पञ्चमेऽपि तथैव च / / / द्वितीयेऽपि खलु कामावचररूपावचरास्त्रयो / दुःखसमुदयभावनाहेयाः / आरूप्याः सर्वगा भावनाहेयाश्च / / [339] सास्रवालम्बनाः स्वे च तृतीयेऽप्यनु [शेर]ते / यथा निर्दिष्ट इति / परिवृत्ते तु रूपाप्ताः संस्कृतार्थाव लम्बिनः॥ निरोधदर्शनहेया असंस्कृतालम्बनान् मुक्त्वा / / [340] अन्यत्तु पूर्ववज्ज्ञेयं चतुर्थेऽपि तृतीयवत् / कामावचराः त्रयो दुःखसमुदयभावनाहेयाख्याः, आरूप्यावचराश्चत्वारः, निरोधाख्यं मुक्त्वा / 'चतुर्थेऽपि' मार्गदर्शण(न)हेये 'तृतीयवत्' द्रष्टव्यम्। यथा तृतीये सास्रवालम्बनाः स्वनैकायिका अधिकीभवन्ति, तथा चतुर्थेऽपि स्वे सास्रवालम्बना अधिकीभवन्ति /