________________ 336.] . पञ्चमोऽध्यायः। 287 तस्मिन्विज्ञाने ते [s] नास्रवालम्बनाः संप्रयोगतोऽनुशेरते। सास्रवालम्बनाः पालम्बनतः / एवं कामाव चराश्चत्वारो निकाया भवन्ति / रूपावचरे विज्ञाने सर्वत्रगसंप्रयुक्ते त्वसर्वत्रगालम्बते (?) / एवं रूपावचरास्त्रि (स्त्र) यो निकाया भवन्ति / तस्य तु चतुर्थध्यानभौमस्याक्लिष्टस्य विज्ञानस्य कामधात्वालम्बनस्योष्मगतविमोक्षाप्रमाना(णा) शुभादिसंप्रयुक्तस्योपेक्षोपविचारसंयुक्तस्य विज्ञानस्यालम्बनम्। तत्पुनराकाशानन्त्यायतनसामन्तकेन कुशलेनालम्ब्यते / अतस्तत्रारूप्याः सर्वत्रगा भावनाहेयाश्चानुशेरते / उक्तं दुःखदर्शनप्रहातव्यम् // [334] तद्वदेव द्वितीयेऽपि पञ्चमेऽपि तथैव च / एवं समुदयदर्शनभावनाप्रहातव्ययोरपि विज्ञानयोर्थथोक्तयोर्द्रष्टव्यम् / अयं तु विशेषः / 'दुःखे दुःखदर्शण (न) हेयाः सर्वे, समुदयसर्वत्र गाश्च / समुदये तु समुदयदर्शनहेयाः सर्वे, दुःखदर्शनहेयाश्च सर्वत्रगाः / अन्यत्सर्वं समानम् / सास्रवालम्बनाः स्वे च तृतीयेऽप्यनुशेरते // निरोधदर्शनप्रहातव्यं तृतीयं विज्ञानम्। तत्राप्येते च त्रयो निरोधदर्शनहेयाश्च सास्रवालम्बनाः / / [335] परिवृत्ते तु कामाप्ताः संस्कृतार्थावलम्बिनः / . परिवत्ते तु विज्ञाने कामावचराश्चत्वारो णि (नि)कायाः, निरोधदर्श. ण(न) हेयालम्बनाश्च सास्रवालम्बनाः। ये ह्यणा (ना) स्रवालम्बनास्ते निव'ना(णा) लम्बने विज्ञानेऽनुशेरते, न विज्ञानालम्बने। शेषं पूर्ववदाख्येयम पूर्वे चत्वारो णि (नि) कायाः, दुःखसमुदयमार्गभावनाहेयाश्चानुशेरत इत्यर्थः। चतुर्थेऽपि तृतीयवत् // चतुर्थेऽपि 'खलु मार्गदर्शनहेये विज्ञाने कामावचरास्त्रयो मार्गदर्शण (न,हेयाश्च सास्रवालम्बना रूपावचराः सवत्रगा भावनाहेयाश्च // [336] परिवृत्ते तु कामाप्ताश्चत्वारोऽन्यत्र पूर्ववत् / / परिवृत्ते तु खलु विज्ञाने कामावच राश्चत्वारो णि (नि) रोधदर्शण(न) हेयं