________________ 286 अभिधर्मदीपे [332. दुःखसमुदयदर्शण (न) भावनाहेयानुशयसंप्रयुक्तं विज्ञानं त्रैधातुकमनास्रवं च पञ्चाष्टदशदशविज्ञानगोचरम्। एवमेषां षोडशानां धर्माणामेतानि षोडशचित्तानि धातुकानि पञ्चप्रकारान्य (ण्य) नास्रवं च व्यवस्थाप्यानुशयकार्य योजयितव्यम् / तत्र तावत्कामा वचरदु:खदर्शनप्रहातव्या धर्मा दशानुशयाः, तत्संप्र. युक्ताश्च चित्तचैतसिका धर्माः सलक्षणानुलक्षणः (णा:) अप्राप्तिप्राप्तिप्राप्तयः / एते धर्मा विषयः पञ्चानां विज्ञानानाम्, दुःखदर्शनप्रहातव्यस्य सर्वस्य विज्ञानस्य, समुदयदर्शण (न) हेयस्य सर्वत्रगसंप्रयुक्तस्य, भावनाहेयस्य कुशलस्याक्लिष्टस्य, द्विविधस्य कुशलसास्रवस्याव्याकृतस्य च, रूपावचरस्याक्लिष्टस्य कुशलसास्रवस्य, अक्लिष्टस्याव्या कृतस्य च कुशलस्योष्मगतादिविमोक्षाप्रहा (मा)णादिसंप्रयुक्तस्य / अव्याकृतस्य तु विपाकजस्य मनोभौमस्य. सूखसौमनस्योपेक्षासंप्रयुक्तस्यानास्रवस्य च दुःखधर्मज्ञानसमूदयधर्मज्ञानतत्क्षान्ति. संप्रयुक्तस्य विज्ञानस्य / / तत्रानास्रवे विज्ञाने न केचिदनुशया अनुशेरते। सास्रवे तु तत्र तावत् - [332] कामाप्तमूर्ध्वधर्मार्थे विज्ञाने स्वभवस्त्रयः / रूपाप्ता भावनाहेयाः सर्वगाश्चानुशेरते।। कामाप्तदुःखदर्शण (न)प्रहातव्ये विज्ञाने कामावचरा दुःखसमुदयभावनाहेयाः सर्वेऽनुशेरते / रूपावचरे त्वक्लिष्टे कामावचरधर्म [VI. B, 3. Fol. 113a] गोचरा एव रूपावचराः सर्वत्रगाः, भावनाहेयाश्चानुशेरते // [333] चत्वारः परिवृत्ते स्वे रूपाप्ताः खल्वपि त्रयः / प्रारूप्यावचराः साधं सर्वगर्भावनाक्षयाः / / परिवत्ते तु खल्वालम्बनालम्बने विज्ञान इत्यर्थः / पूर्वकाः कामावचर. रूपावचरा यथोक्ताः। [केना]धिकोभवन्ति ? कामावचरस्तावच (च्च)तुर्थो निकायो मार्गदर्शनप्रहातव्यः / कथं कृत्वा ? यत्तदुःखसमुदयज्ञानं तत्क्षान्तिसंप्रयुक्तं विज्ञानं कामावचरदुःखदर्शण (न) हेयधर्मालम्बनम् / तत्खल्वालम्बनं मार्गदर्शण (न) हेयमिथ्यादृष्टिविचिकित्साऽविद्यासंप्रयुक्तस्य विज्ञानस्य / 1 Cf. एवमेषां षोडशानां चित्तानां पोडशधर्मालम्बनव्यवस्थां विदित्वा कथमनुशयकार्य योजयितव्यम् ? दिङ्मानं दर्शयि यामः / ." Akb. v. 31 cd. See Saks. pp. 481-3. The Akb. is very brief. The Adv. deals with this topic in detail (karikas 331-346).