________________ 331.1 पञ्चमोऽध्यायः / 285 आरूप्यावचरास्त एव त्रयो धर्माः, दशानां विज्ञानानामालम्बनम् / वैधातुकानां प्रत्येकं त्रयाणाम्, एषामेवानास्रवस्य च / इत्येवं ता(ता)वत् श्रधातुकाः दुःखसमुदयदर्शण (न) हेया भावनाहेयाश्च धर्मा उक्ताः॥ [330] सर्वे स्वाधिकविज्ञेयाः समनिर्याणदृक्क्षयाः।' सर्व एव धातुकाः निरोधमार्गदर्शनहेयाः स्वनै कायिकाधिकश्चि(चित्तगोचरा विज्ञातव्याः / 2 कामावचरो हि निरोधदर्शण (न) प्रहातव्यो धर्मों दुःखदर्शनप्रहातव्यादिवत् पञ्चानां विज्ञानानामालम्बनम्। स्वनैकायिकस्य चानिरोधदर्शनप्रहात व्यस्येति षण्णाम्। एवं मार्गदर्शण (न)प्रहातव्योऽपि वेदितव्यः। रूपावचरौ निरोधमार्गदर्शण (न)प्रहातव्यो पूर्ववदष्टाणां (नां) विज्ञानानां प्रत्येकमालम्बनं स्वनैकायिकस्य चाधिकस्येति नवानाम् / एवमा. रूप्यावचरौ पूर्ववद्दशानां स्वनैकायिकस्य चाधिकस्येत्येकादशानामालम्बनं भवत: / उक्ताः पञ्चदशधर्माः।३।। निष्क्लेशा स्त्रिभवाप्तान्त्यत्रयनिर्मलगोचराः॥ धातुकानां पञ्चानां प्रकाराणां प्रत्येकं येऽन्त्यास्त्रयः प्रकारा णि (नि). रोधमार्गदर्शण (न) भावनाहेयाख्याः, तेषां नवानामनास्रवस्य चेति / एवमनासवा धर्मा दशानां विज्ञानानामालम्बनं भवन्ति // " पुनरष्येष एवार्थपिण्डः श्लोकेनावद्योत्यते[331] कामाप्त (प्तं) पञ्चविषयो रूपाप्तं त्वष्टगोचरः / आरूप्याप्तं दशानां तु दशानामेव चामलम् / / 1 cf. निरोधमार्गदृग्धेयाः सर्वे स्वाधिकगोचराः। Ak. v. 31 ab. 2 Cf. निरोधमार्गदर्शनहेयानां स्वं चित्तं निरोधमार्गदर्शनहेयमेव तस्याधिकस्य ते धर्मा आलम्बनं ज्ञेयाः"" | Akb. v. 31 ab. 3 See Saks. p. 480. 4 Cf. अनास्रवास्त्रिधात्वन्त्यत्रयानास्रवगोचराः। Ak. v. 31 cd. 5 अनानवा इति निरोधादयः / त्रिषु धातुषु यान्यन्त्यानि त्रयाणि निरोधमार्गदर्शनभावनाप्रहातम्यलक्षणानि / तेषां यथायोगमनास्रवस्य च गोचरः। कथम् ? प्रतिसंख्यानिरोधार्यमार्गौ तावत्तदालम्बनानां मिथ्यादृष्टिविचिकित्साऽविद्यासम्प्रयुक्तानां भावनाप्रहातव्यानामनास्रवस्य च धर्मज्ञानान्वयज्ञानपक्षस्य यथायोगमालम्बनम् / आकाशाप्रतिसंख्यानिरोधी तु भावनाप्रहातव्यस्यैवाक्लिष्टस्य चित्तस्यालम्बनमिति वेदितव्यम् / आचार्य गुणमतिवसुमित्रो तु व्याचक्षाते-आकाशाप्रतिसंख्यानिरोधी भावनाप्रहातव्यस्य क्लिष्टाक्लिष्टस्यालम्बनमिति / सदयुक्तम् / “अतोन क्लिष्टचित्तस्य भावनालम्बनमिति सिद्धान्तः / Saks. p. 481.