________________ 284 अभिधर्मदीपे [328. ज्ञानेषु पृष्टः सत्येषु पातयित्वा लक्षयेत् / अनुशयेषु पृष्टः प्रकारेषु पातयित्वा निर्दे(दि)शेत् / एवमसंमूढो व्याकरोतीति / / तत्र तावत् / विज्ञानेषु षोडशधर्माश्वोद्यन्ते / कस्य विज्ञानस्य कतमे धर्मा गोचर[1] इति ? तदाविष्क्रियते [328] सदुःखहेतुदग्धेयाः कामाप्ता भावनाक्षयाः। स्वकत्रयकरूपाप्तिविरजाश्चित्तगोचराः // ' कामावचराः खलु दुःखसमुदयदर्शनभावनाप्रहातव्या धर्माः प्रत्येक पञ्चानां विज्ञानानां गोचरीभवन्ति / कतमेषां पञ्चानाम् ? स्वेषां त्रयाणां कामावचर स्य दुःखदर्शण (न)प्रहातव्यस्य विज्ञानस्यालम्बनम् / समुदयदर्शण (न)प्रहातव्यस्य सर्वत्रगसंप्रयुक्तस्य / भावनाप्रहातव्यस्य कुशलस्य / एकस्य च रूपाप्तस्य भावनाप्रहातव्यस्य कुशलस्यानास्र वस्य चेति / एवं समुदयदर्शण (न) भावनाप्रहातव्यावपि वक्तव्यो / एत एव त्रयो धर्माः [329] प्रात्मीयाधस्त्रयकोर्ध्वनिर्मलानां तु [VI. A, 2. Fol. 112 b.] रूपजाः / 3 रूपावचरो हि दुःखदर्श [न] प्रहातव्यो धर्मः अष्टानां विज्ञानानामालम्बनम्। स्वकत्रयस्याधरत्रयस्यो+कस्यामलस्य च / स्वधातुकस्य त्रयस्य पूर्ववत् / अधरधातुकस्य तु कामावचरयोर्दुःखसमुदयदर्शण (न)प्रहातव्यविसभागधात्वालम्बनयोः। भावनाप्रहातव्यस्य च कुशलस्य ऊर्बेकस्यारूप्यावचर स्य भावनाप्रहातव्यस्य कुशलस्यानास्रवस्य' च। एवं समुदयदर्शनभावनाप्रहातव्यो वाच्यो। प्रारूप्याप्तास्त्रिधात्वाप्तत्रिकनिर्मलगोचराः // 1f. दुखहेतुदृगभ्यासाहेयाः कामधातुजा। स्वकत्रयकरूपाप्तामलविज्ञानगोचराः // Ak. v. 29. 2 स्वधातुकानाम् in Akb. v. 29. see Saks. 479. 3 Cf. स्वकायरत्रयोर्चेकामलानां रूपधातुजाः / Ab. v. 30 ab. 4 आकाशानन्त्यायतनसामन्तकसंगृहीतस्य / Saks. p. 479. 5 अनास्रवस्य चान्वयज्ञानपक्षस्येति / Ibid. 6 Cf. आरूप्यजास्त्रिधात्वाप्तत्रयानास्त्रवगोचराः। Ak. v. 30 cd.