________________ 327.] - पञ्चमोऽध्यायः / 283 [325] अन्यसर्वत्रगेर्बद्धः प्रहोणे दुःखदृक्क्षये।' दुःखज्ञाने उत्पन्ने समुदयज्ञाने चानुत्पन्ने दुःखदर्शनप्रहातव्यं वस्तु प्रहीणं भवति / तस्मिन्प्रहीणेऽपि समुदयदर्शण (न)प्रहातव्योऽप्रहीणः, तदालम्बनैः सर्वत्रगैः संयुक्तः / भावनामार्गेऽपि- प्रहीणे प्राकप्रकारेऽपि शेषस्तदवलम्बिभिः // 3 नवानां प्रकाराणां यो यः प्रकारः पूर्व प्रहीणस्तस्मिन्प्रहीणेऽपि शेषस्तदवलम्बिभिः क्लेशैः संयुक्तो विज्ञातव्यः / / अथ कस्मिन्वस्तुनि कत्यनुशया अनुशेरते ? अत्र चालम्बननियम एव तावदर्शयितव्यः / 'कतमो धर्मः कतमस्य विज्ञानस्यालम्बन [म्] ? तत एव [त] द्विस्पष्टं गम्यते-अमुष्मिन्वस्तुनि इयन्तोऽनुशया अनुशेरत इति / / तदिदमभिधर्मगह्वरं प्रतार्य(य)ते[326) धर्माः षोडष(श) विज्ञेयाः प्रत्येकं त्रिभवात्मकाः। पञ्चधा निर्मलाश्चैव विज्ञानानि तथैव च // धर्मास्तावत् कामरूपारूप्यधातुषु प्रत्येकं पञ्चप्रकारा दुःखादिदर्शनहेया अप्रहेयाश्च निर्मला इति षोडश भवन्ति / एवं विज्ञानानि द्रष्टव्यानि // तत्र तावदाभिधार्मिकोऽन्यः पृष्टः[327] धात्वायतनसत्येषु प्रकारेषु च ल'क्षयेत् / .. धर्मसंग्रहविज्ञानज्ञानानुशयचोदितः // धर्मसंग्रहविज्ञाने वा पृष्टो धात्वायतनस्कन्धेषु पाद(त)यित्वा लक्षयेत् / 1 प्रहोणे दुःखदृग्धेये संयुक्तः शेषसर्वगः / Ak. v. 28. cd. 2 निकायः in Akb. 3 Cf. प्राक् प्रहोणे प्रकारे च शेषस्तविषयमलैः। Ak. v. 28 cd. 4 v. supra, 165, n. 2. 5 शेषस्तद्विषयमलेरिति / प्रहीणप्रकारविषयानुशयैरित्यर्थः। तद्यथाऽधिमात्राधिमात्र प्रकारे प्रहीणेऽधिमात्रमध्यादिभिः शेषैरप्रहीणैरनुशयैः संयुक्तः / तथा ह्यसावधिमात्राघिमात्रेण प्रहीणेन क्लेशप्रकारेण विसंयुक्तोऽपि स संयुक्त एवं तैः शेषैरिति / Saks. p. 478. 6 Cf. तत्र कतमो धर्मः कस्य चित्तस्यालम्बनमिति ज्ञात्वा अमुष्मिन्नियन्तोऽनुशया अनुशेरत इत्येतदम्यूहितव्यम् / Akb. v. 28.