________________ 282 अभिधर्मदीपे [ 324. अत्र सर्वास्तिवादविभ्रष्टि र्वैतुलिको निराहः (ह)-वयमपि त्रीन् स्वभावान् कल्पयिष्यामः / ' तस्मै प्रतिवक्तव्यम् [324] परिकल्पैर्जगद्वयाप्तं मूर्खचित्तानुरञ्जिभिः / .. यस्तु विद्वन्मनोनाही परिकल्पः स दुर्लभः / / ते खल्वेते भवत्कल्पितास्त्रयः स्वभावाः पूर्वमेव प्रत्यूढाः / एवमन्येऽप्य. सत्परिकल्पा: प्रोत्सारयितव्याः। इत्येतदपरमध्वस(सं)मोहाङ्कनास्थानं कोशकारकस्येति / गतमेतत्प्रासङ्गिकं प्रकरणम् / शास्त्र मेवानुवर्तताम् / / व्याख्यातमिदं यस्मिन्वस्तुनि यैः क्लेशैर्यदवस्थैर्यः संयुक्तः / इदमिदानी वक्तव्यम् / यद्वस्त्वप्रहीणं संयुक्तः स तस्मिन्वस्तुनि ? यस्मि वा वस्तुनि संयुक्तों. प्रहीणं तस्य तद्वस्तु ? यत्तावद्वस्त्वप्रहीणं संयुक्तः स तस्मिन्वस्तुनि / स्याद्वस्तुनि संयुक्तो न च तद्वस्त्वप्रहीणं यथा तावदर्शनमार्गे / 3 यदासंप्राप्तकारित्रः, कृत्यं न करोति, तदाऽनागतोऽभिधीयते / यदा करोति तदा प्रत्युत्पन्नः / यदा तु कृत्यान्निवृत्तः, तदाऽतीत इति विशेषः / एतदपि न किंचित् / तेनैवात्मना तस्यैव तदापि सद्भावात् / कारित्रमपि कथं न स्यात् / इति वक्तव्यम् / प्रत्यान्तरापेक्षापि नित्यमवस्थितरूपस्य न संभवति / कारित्रशुन्यस्य च वस्तुत्वेऽश्वविषाणादीनामपि तत्त्वप्रसङ्गः। कारित्रं ,वा कथमतीतमनागतं प्रत्युत्पन्नं चोच्यते। किं तदपरकारित्रसद्भावात् / स्वयमेव वा। पूर्वत्रानवस्थानम् / पाश्चात्ये च धर्मस्यापि स्वयमतीतत्वादिव्यवस्थाया न किश्चित्स्यते / यदि च यथा वर्तमानं द्रव्यतोऽस्ति तथातीतमनागतं चास्ति / तदा नैवम् / स्वभावेन सतो धर्मस्य कथमनुत्पन्नविनष्टस्वभावता ।""तस्मादभूत्वाभवनधर्मतो न संगच्छते कथंचिदध्वत्रययोगः / तत्त्वम्युपगच्छतो नातीतादिसद्भावः / तदयमत्र संग्रहश्लोकः- 'स्वभावः सर्वदा चास्ति'। B. Parijika, IX 143 ab. 1 कल्पितः परतन्त्रश्च परिनिष्पन्न एव च / - त्रयः स्वभाबा धीराणां गम्भीरज्ञेयमिष्यते // यत ख्याति परतन्त्रोऽसौ यथा ख्याति स कल्पितः / प्रत्ययाधीनवृत्तिस्वात् कल्पनामात्रभावतः // तस्य ख्यातुर्यथाल्यानं या सदाऽविद्यमानता / ज्ञेयः स परिनिष्पन्नः स्वभावोऽनन्यथात्वत: // Triswabhava-nirdesa, !-3. 2 V. supra, p. 33; p. 101, n, 4. 3 Cf. यद्वस्तु प्रहीणं विसंयुक्तः स तस्मिन्वस्तुनि ? यत्र वा विसंयुक्तः प्रहीणं तस्य तद्वस्त्विति / यत्र तावद्विसंयुक्तः प्रहीणं तस्य तद्वस्तु / स्यात्तु प्रहीणं न च तत्र विसंयुक्तस्तद्यथा"| Akb. v. 28.-यद्वस्तु प्रहोणमित्यादि। इह प्रहाणं प्राप्तिविगमात् / विसंयोगस्तवालम्बनक्लेशप्रहाणात् / Saks. p. 477.