________________ 323.] . पञ्चमोऽध्यायः / 281 [321] वर्तमानाध्वसंपातात् सामग्रयाऽङ्गपरिग्रहात् / लब्धशक्त: फलाक्षेपः कारित्रमभिधीयते // अनागतस्य खलु धर्मस्य वर्तमानाध्वसंपातादन्तरङ्गबहिरङ्गसामग्र्याङ्गपरिग्रहात् लब्धसामर्थ्यस्य धर्मस्य यः फलाक्षेपस्तत्कारित्रमित्युच्यते / ' सा च वर्तमानकाला वृत्तिः कारित्रमित्याख्यायते / तत्र यो ब्रतेऽनन्यत्कारित्रमिति तस्य द्रव्य स्वभावपरित्यागः प्रसज्यते / / शास्त्रे तु खलु[322] न वर्तमानता रूपमतीताजान(त)ता न च / ___ यतोऽतो नाध्वसंचाराद् रूपात्मान्यथतेष्यते / / यदि द्रव्यात्मनों नान्यथात्वं किं तहि हेतू[न] प्रतीत्य जायते ? ब्रमः-- [323] अवस्था जायते काचिद्विद्यमानस्य वस्तुनः / तथा शक्तिस्तथा वेला तथा सत्ता तथा क्रिया। तत्रावस्थाशक्तिप्रचय[VI. B, 2. Fol. 112 a] क्रियापेक्षा द्रव्यवशा शक्तिः क्रियापेक्षाकृतं सामर्थ्यम् / क्रियाणा (ना) गतफला। द्रव्यवृत्तिवे (व)ला कालो वर्तमानाख्ये (ख्यः)। मूर्तिः परमानु(णु)प्रचयविशेषः / सत्ता प्रबोधाख्यं प्रज्ञप्तिसत्यम् / इति सर्वमेतदन्तरङ्गबहिरङ्गकारणसामग्रीसन्निधानापेक्षासक्तस्वरूपम् / / 2 9 On karitra, see Ana. pp. 362 ff. Cf. यदि धर्म एव कारित्रं कस्मात्स एव धर्मस्तेनैवात्मना विद्यमानः कदाचिदतीत इत्युच्यते कदाचिदनागत इत्यध्वनां व्यवस्थानं न सिध्यति / किमत्र न सिध्यति ? यो ह्यजातो धर्मः सोऽनागतः / यो जातो भवति न च विनष्टः स वर्तमानः / यो विनष्टः सास्तीत इति / एतदेवात्र वक्तव्यम् / यदि यथा वर्तमानं द्रव्य तोऽस्ति न तथाऽतीतमनागतं चास्ति / तस्य "तेनैव स्वभावेन सतो धर्मस्य कथमिदं सिध्यत्यजात इति यो विनष्ट इति वेति / किमस्य पूर्व नासीद्यस्याभावादजात इत्युच्यते ? किं च पश्चान्नास्ति यस्याभावाद्विनष्ट इत्युच्यते ? तस्मान्न सिध्यति सर्वथाऽप्यध्वत्रयम्, यद्यभूत्वा भवतीति नेष्यते भूत्वा च पुनर्न भवतीति / यदुक्तम्-'संस्कृतलक्षणयोगान शाश्वतत्वप्रसङ्ग' इति। तदिदं केवलं वाङ मात्रमुत्पादविनाशयोरयोगात् / नित्यं च नामास्ति स धर्मो न च नित्य इत्यपूर्वेषा वाचो युक्तिः / आह खल्वपि "स्वभावः सर्वदा चास्ति भावो नित्यश्च नेष्यते / न च स्वभावाद् भावोऽन्यो व्यक्तमीश्वरचेष्टितम् // " Akb. v. 17 bc. .. Also cf. अथ पूर्वापरकालयोः कारित्रशून्यता धर्मस्याध्वसु विशेषः। तथा हि