________________ 359.] . पञ्चमोऽध्यायः / 295 - [358] रागः सु(स्व)दशि मानश्च द्वेषोऽन्यत्र प्रतायते / ज्ञेयः प्रवृत्तिबाहुल्यादेवमेषामनुक्रमः // ' इह तावद् वालस्य पञ्चोपादानस्कन्धात्मके दुःखे संमुग्धस्य फलभूता[न्] पञ्चोपादानस्कन्धानजानतः सत्कायदृष्टिरुपजायते। सत्त्वजीवपुद्गलात्मग्राहयोगेन / ततोऽस्य तच्छाश्वतोच्छेदान्तग्राहलक्षणाऽन्तग्राहदृष्टिः। तस्यैवं भवति -- यदि तावदयं नित्योऽविकारी पुरुषः किं धर्मेण यः सुखेन नानुगृह्यते, दुःखेन वा नोत्पीड्यते / अथायमुच्छेदधर्माऽनित्यस्तथापि कि मि (में)णेति विचारयतः कांक्षो(काङ्क्षो)त्पद्यते / कांक्षा (काङ्क्षा) प्रवृद्धया मिथ्यादर्शण(न). मावहति / तदकारणे कारणाभिनिवेशानिहीनं चाग्रतो ग्रहणात् शीलवत. दृष्टिपरामर्शावाकर्षति / ततोऽस्य 'रागः स्वदशि मानश्च द्वेषोऽन्यत्र प्रतायते।' तस्य खलु मिथ्यादर्शनभूतग्रहावेध शादश्रेयसि श्रेयोबुद्धया प्रवृत्तस्यानन (ग्रे) चाग्रयबुद्धयभिनिविष्टस्य स्वपक्षे रागो भवति परपक्षे च द्वेषः प्रवर्तते / 2 इत्यतः त्य (तत्) 'ज्ञेयः प्रवृत्तिबाहुल्यादेवमेषामनुक्रमः' / / वयं तु पश्यामः [359] सदसन्मित्रयोगात्त तवृत्त्यनियमो मतः। कल्याणमित्रपापमित्रसंसर्गाद्धि प्रायेण श्रद्धादीनां गुणानामेषां च क्लेशानां समु[दा] चारप्रवृत्तिः आचार्याणामभिमतेति / स पुनरेषः क्लेश उत्पद्यते कश्चित्संपूर्णैः कारणस्त्रिभिः // हेतुप्रयोगविषयबलैः कश्चित् त्रिभिरुत्पद्यते / कश्चिद् द्वाभ्यामिति / . 1 रागः स्वदृष्टौ मानश्च द्वेषोऽन्यत्रेत्यनुक्रमः / Ak. v. 33 cd. 2 स्वदृष्ट्यध्यवसितस्य तत्प्रत्यनीकभूतायां परदृष्टी द्वेषः प्रवर्तते / अपरे स्वदृष्टावेवान्यत्र गृहीते त्यक्तायां द्वेषमिच्छन्ति / दर्शनहेयानां दृष्टीनां स्वासान्तनिकदृष्टयालम्बनत्वात् / Akb. v. 33d. 3 अप्रहोणावनुशयाविषयात्प्रत्युपस्थितात् / अयोनिशोमनस्कारास्क्लेशः संपूर्णकारणः // Ak. v. 34. 4 तद्यथा रागानुशयोऽप्रहीणो भवत्यपरिज्ञातः कामरागपर्यवस्थानीयाश्च धर्मा आभासगता भवन्ति तत्र चायोनिशो मनस्कार एवं कामराग उत्पद्यते / तान्येतानि यथाक्रमं हेतुविषयप्रयोगबलानि 1. Akb. 34 abc. हेतुविषयप्रयोगबलानीति / हेतुबलं कामरागोत्पत्तये कामरागानुशयोऽप्रहीणो भवत्यपरिज्ञातः। कामरागपर्यवस्थानीया विषयबलम् / तत्र चायोनिशोमनस्कारः प्रयोगबलम् / Saks. p. 485.