________________ 276 अभिधर्मदीपे [314. [314] लोके दृष्टः सतोरेव परस्परमनुग्रहः / तद्वदेवोपघातोऽपि नाश्वशृङ्गाहिवा(पा)दयोः // अनुग्रहोपघातयोश्च कार्यकारणसंबन्धोपचारश्च सतोरेव भवतीत्यास्तनन्धयेभ्यः प्रसिद्धमेतत्, नासतोः न च सदसतोरिति / वैतुलिकः' कल्पयति[315] यत्प्रतीत्यसमुत्पन्न तत्स्वभावान्न विद्यते / ' यत्खलु निस्वभावं निरात्मकं हेतून्प्रतीत्य जायते तस्य खलु स्वभावो नास्ति / न हि तत्कारणेषु प्रत्येकमवस्थितं नापि भागशो नाप्यन्यत्र क्वचित् / नापि हेतुसमुदाये तद्रूपाभावात् / यच्च न क्वचिदस्ति तत्कतमेन स्वभावेनोत्पत्स्यत इति नास्ति स्वभावः / यस्य च नास्ति स्वभावः तत्कथमस्तीत्युच्यते ? तस्मादलातचक्रवन्निस्वभावत्वात् सर्वधर्मा निरात्मान इति / तं प्रत्यपदिश्यते१. Cf. नेवासतो नव सतः प्रत्ययोऽर्थस्य युज्यते / असत: प्रत्ययः कस्य सतश्च प्रत्ययेन किम् // न सन् नासन् न सदसद् धर्मो निर्वतते यदा। कथं निवर्त को हेतुरेवं सति हि युज्यते // Madhyamika-karilea , I.6-7. न भावाज्जायते भावो भावोऽभावान्न जायते। नाऽभावाज्जायतेऽभावोऽभावो भावान्न जायते || Chatuh-sataka, 364. 2 Cf. हेतुप्रत्ययसामग्री प्रतीत्य जातस्य परायत्तात्मलाभस्य प्रतिबिम्बसमे कुतः सत्स्वभावता? "यः प्रत्ययैर्जायति स ह्यजातो। न तस्य उत्पादु स्वभावतोऽस्ति / यः प्रत्ययाधीनु स शून्य उक्तो / यः शून्यतां जानति सोऽप्रमत्तः // B. Panjika, IX. 2. See Siksha, p. 241.. 3 Cf. यदुक्तं वैपुल्ये निःस्वभावा: सर्वधर्मा इति / तत्र कोऽभिसन्धिः ? स्वयमभावतामुपादाय स्वेनात्मनाऽभावतामुपादाय रवे भावेऽनवस्थितात्मतामुपादाय बालग्राहवच्चालक्षणतामपादाय // अपि खल परिकल्पिते स्वभावे लक्षणनिःस्वभावातामपादाय परतन्त्रे उत्पत्तिनिःस्वभावतामुपादाय परिनिष्पन्ने परमार्थनिःस्वभावतामुपादाय / अनुत्पन्ना अनिरुद्धा आदिशान्ताः प्रकृतिपरिनिता इति कोऽभिसन्धिः ? यथा निःस्वभावास्तथा अनुत्पन्नाः / यथा अनुत्पन्नास्तथा अनिरुद्धाः / यथा अनुत्पन्नाश्चानिरुद्धाश्च तथा आदिशान्ताः। यथा आदिशान्तास्तथा प्रकृतिपरिनिर्वृताः // Asm. p. 84.