________________ 277 317.] पञ्चमोऽध्यायः। न विद्यते स्वभावाद्यद्विद्यते तत्ततोऽन्यथा // ब्रह्मोद्यमेतत्-यत्प्रतीत्यसमुत्पन्नं तत्संवत्यात्मना विद्यते वनसंघादिवत् / यत्परमार्थतो विद्यते तस्य प्रतीत्यावस्थाशक्तिमूर्तिक्रियादिमात्र. मुत्पद्यत' इति / ___तस्य तर्हि हेतवो विद्यमानस्य कमुपकारं कुर्वन्तीति ? अत्राभिधीयते / न खलु द्रव्यस्वभावास्तित्वं प्रति कञ्चिदुपकारं कुर्वन्ति / / न च स्वभावस्यापेक्ष्य प्रज्ञप्तिः / किं तर्हि ? [316] प्रकुर्वन्ति दशामात्रं [VI. A, 1. Fol. 111 b.] 'हेतवो वस्तुनः सतः / राजत्वं / राजपुत्रस्य सात्मकस्यैव मन्त्रिणः // तद्यथाऽभिजातस्य राजपुत्रस्य विद्यमानस्य मन्त्रिणः सबलसमुदयाः परिग्रहानुग्रहमात्रेणोपकुर्वन्तो राजत्वं कुर्वन्त्येवमनागतस्य वस्तुनः सतो हेतुप्रत्ययाः समेत्य लक्षणमात्र(त्र) [वर्त ] मानाख्यमैश्वर्याधिपत्यं कुर्वन्तीत्यववोद्धव्यम् / / अन्ये पुनर्वर्णयन्ति[317] धर्माणां सति सामग्र्ये सामर्थ्यमुपजायते। . चितानां परमानू (णू) नां यद्वदात्मोपलम्भने / / यथा खलु परमानु(णु)संचयश्चक्षुषा गृह्यते, प्रत्येकं परमान(ण) वो न गह्यन्ते, तथा कारणसामग्रथे सति धर्माणां क्रियासामर्थ्यमुपजायत इति द्रष्टव्यम्। भदन्तकुमारलातः पश्यति-वातायनप्रविष्टस्यां (स्या)न्तःपार्श्वद्वयेऽपि अटयः सन्ति / रश्मिगतस्य तु दर्शनमस्य त्रुटे रश्मिपार्श्वगास्त्वनुमेयाः / एतेन व्याख्यातं धर्माणामध्वयोर्द्वयोरस्तित्वम् / प्राप्य ज्ञानातिशयं मुनयः पश्यन्ति, तास्तु धीहि त्रिकजा / / 1v. infra, Ad. karika 323. 2 Cf. वैभाषिकाणामेतन्मतम् / अनागतं विद्यमानं उत्पद्यत इति / तस्मादयं प्रसञ्जयति / 'ननु चैवं सति सभागहेतुरभूत्वा अनागतावस्थायां हेतुर्भवति वर्तमानावस्थायामिति प्राप्त' प्रसक्तमित्यर्थः / 'इष्यत एवावस्था प्रति न द्रव्यम्' इति / 'अवस्थाफलं हि सामग्यं न द्रव्यफलम्' इति / Saks. p. 201.