________________ 313. ] पञ्चमोऽध्यायः। 275 सदुत्पत्तिप्रसङ्गात् / तद्धेतु कानां च जायमानजातनश्यत्कालेष्वात्मास्तित्वस्थितशक्तीनामनुपपत्तेः / कारणानां च कार्यात्मकत्वा[त्] प्रागुत्पत्तेरसत्त्वम्, असत्त्वादनुपपत्तिदोषापत्तिः / कुतश्च नाभावो भावीभवति ? स्थितिशक्तिक्रिया [5] योगात् / / कथमयोग इति चेत् / तदाविष्क्रियते[313] स्थितिशक्तिपरित्यक्तान्धर्मान्नाशान्वितोदयान् / वद सोम्य कथं याति प्रतीत्या वस्तु वस्तुताम / / इह खलु भवतामहेतुको विनाश:२ . सर्वोत्पत्तिमतां नित्यसंनिहितः / तस्मिश्च सति जन्मस्थितिशक्तिक्रिया न विद्यन्ते, विरोधात् / तास्वसतीषु कारणमपि चे(चे)व विष्टम् / तदस्मिन्नसति किं प्रतीत्य असन्निरात्मकं वस्तु वस्तुतां यातीत्याचक्ष्व / कथं ते कार्य कारणं वोपपद्यते ? सतां हि संज्ञासंज्ञिज्ञानज्ञेयक्रियाकारणहे तुफलादीनामन्योन्यापेक्षप्रज्ञप्तेः / अथ तवाभावो न कश्विदस्ति भावविरोधी, कथं तहि स भावो नष्ट इत्युच्यते ? तस्माद्भवतो वाङ्मात्रमेतत्, मम तु विद्यमानयोरेवोपकार्युपकार[क] भावो युक्तः // यस्मात्--- 1 Cf.यस्य त्वतीतानागतं द्रव्यतोऽस्ति तस्य फलं नित्यमेवास्तीति किं तत्र कर्मणः सामर्थ्यम् / उत्पादने सामर्थ्यम् / उत्पादस्ता भूत्वा भवतीति सिद्धम् / * अथ सर्व एव चास्ति / कस्येदानों क्व सामर्थ्यम् / वार्ण्यगण्यवादश्चैवं द्योतितो भवति---'यद्यस्त्यस्त्येव तत् / यन्नास्ति नास्त्येव तत् / असतो नास्ति संभवः। सतो नास्ति विनाश' इति / वर्तमानीकरणे तर्हि सामर्थ्यम् / तिमिदं वर्तमानीकरणं नाम। देशान्तराकर्षणं चेत् / नित्यं प्रसक्तम् / अरूपिणां च कथं तत् / यच्च तदाकर्षणं तदभूत्वा भूतम् / स्वभावविशेषणं चेत् सिद्ध मभूत्वा भवनम् / तस्मान्नवं सर्वास्तिवावः शासने साधुभवति यदतीतानागतं अभ्यतोऽस्तीति वदति / Akb. v. 27 c. -वर्तमानीकरण इति वैभाविकः / किमिदानी वर्तमानीकरणमिति विस्तरेणाचार्यः / देशान्तराकर्षणं चेत् / यदि मन्यसे हेतुना फलस्य देशान्तराकर्षणं वर्तमानीकरणमिति, अत्र ब्रूम : / नित्यं प्रसक्तं फलमिति वाक्यशेषः / केवलं देशान्तराद्देशान्तराकर्षणम्, न किञ्चिपूर्वमुत्पद्यत इति नित्यं प्रसक्तम् / अरूपिणां च वेदनादीनाम् / कथं तद्देशान्तराकर्षणा / अमूर्तत्वेनादेशस्थत्वान्न तद्युज्यत इत्यभिप्रायः / यच्च तदावर्षणं क्रियासंज्ञकम्, तदभूत्वा भूतमित्यभूत्वाभावसिद्धिरित्यभिप्रायः। स्वभावविशेषणं चेत् / यदि मन्यसे हेतुना स्वभावोऽस्य फलस्य विशेष्यते, तेन फलविशेषणं भवतीति / अत्र ब्रूमः / सिद्धमभूत्वा भवनमिति / सिद्धमभूत्वा विशेषणस्य भवनं प्रादुर्भाव इति / Saks. pp. 476-7. 2 V. S.!pra, p. 107: n. 1.