________________ 274 अभिधर्मदीपे [310. [310] द्वितीयं जन्म जातस्य वस्तुनो नोपपद्यते // यदि खलु क्षीरे दध्यादयो विकाराः सन्ति बीजे चाङ्कुरादयः शुक्रशो. नि(णि)ते च कललादयः, तेषां जातानां क्षीरादिवज्जन्म पुनर्ण(न) युज्यते / यथा च न युज्यते तथा पूर्वमेवाविष्कृतम् / वैशेषिको मन्यते-कपालेष्वविद्यमानं घटद्रव्यं तन्तुषु चाविद्यमानं पट द्रव्यं कपालतन्तुसंयोगादुत्पद्यते / गोण्या च कल्पनया विप्रकृता(ष्टा ?)वस्था. विषया जनिकर्तृ सत्ता व्यपदिश्यत इति / अस्याप्यवयविद्रव्यं सहावयवेः पूर्वमेव विहितोत्तरम् / यत्पुनरुक्तमुपचारसत्तया जनिकर्तोपदिश्यत इत्यत्र ब्रूमः मुख्यसत्ता गुणाभावाद गौनी (णी) सत्ता न विद्यते // न हि मुख्यसत्ता[यां] गुणाभावेऽवयवाभावे वा कारणेषु प्रागुत्पत्त्यभावे वा कार्यसत्तोपचारो युज्यते / / कस्मात् ? [311] साधये सति तद् वृत्तेाहारं मधुरोक्तिवत् / तद्यथा मधुरवाग्देवदत्त इति वाचि माधुर्यगुणयुक्तस्य गुडद्रव्यस्य मधुनो वा साधर्म्यमभिलषणीयता विद्यते इत्यतो वाचि[VI. B, 1. Fol. 111 a]1 माधुर्यशब्दः प्रयुज्यते / कन्यामुखे च चन्द्र कान्तिसादश्यं दृष्ट्वा चन्द्रशब्दः प्रयुज्यते / वाहीके च जाड्यसाधाद्गोशब्दः प्रयुज्यते-- गौरयं वाहीक इत्येवमादिः / न च तथा कश्चिद्गुणावयवगन्धोऽपि तन्तुषु तत्संयोगे वा प्रागुत्पत्त्या भावे निरात्मनः कार्यस्यास्तीति / न च कार्य किञ्चिदीषत्कृतमुपपद्यते / निष्ठासत्तैककालाभ्यु पगमात् / प्रागव्यपदेश्यं वस्तुमात्रं विप्रकृतं जायत इति चेत् / न / उक्तोत्तरत्वात् / मम तु चन्द्रकोटीप्रकाशलक्षणो दृष्टान्तो विद्यते / प्राविष्टलिङ्गमुख्यस्य जन्मेष्टं दारकादिवत् // अयं हि जनिरभिनिष्क्रमणादिवचनो नासत्प्रादुर्भाववचनः। कथम् ? 'दारि(र)कादिवत्' / तद्यथा दारको मुख्यसत्ताविष्टो मातृकुनिष्क्रमने(णे) जायत इत्युच्यते / तद्वदत्रापीति / / दार्टान्तिकः खलु ब्रते-कारणशक्तिषु निरात्मकजनिकपचारः प्रवतते / तं प्रति ब्रूमः-- [312] स्यात्खपुष्पैः खमुत्फुल्ल स्याञ्जटालश्च दर्दुरः। स्वभावो यदि भावनां प्रागभूत्वा समुद्भवेत् // न ह्यसतः कस्यचिच्छशविषाणादेरुत्पादो भवति नरात्म्याविशेषसर्वा