________________ 309.] पञ्चमोऽध्यायः। 273 तद्यथा परचित्तविदः स्वलक्षणाकारा बुद्धिरुत्पद्यते। तत्सामोपाधि[व] शेनान्यथापि जानीते। तद्वत्तत्सामर्थ्यण भाविनी भूतां च संज्ञा (ज्ञां) 'रूपादिषु देवदत्तघटलक्षणां प्रतिपद्यत इति // इतश्च सदतीतानागतम्[308] हर्षोत्पादभयोद्वेगस्मृत्युत्पत्य(त्य)ङ्गभावतः / अतीतानागतं हि मित्रममित्रौ(त्र) वा मनसि कृत्वा हर्षोत्पादभयाद. योऽभ्युपजायन्ते / ते चानिमित्ता न भवितुमर्हन्ति / कथम् ? वर्तमानवत् / / तद्यथा सति वर्तमाने मित्रेऽमित्रे वा हर्षभयादयो भवन्ति नासतो ति तद्वत् / किञ्च, साङ्गस्य शक्त्यभिव्यक्तः सदीपघटरूपवत् / / विद्यमानस्य खल्वनागतस्य वस्तुनोऽतीतप्रत्युत्पन्नसहकारिकारणसामग्रीगहीतस्य शक्तिमात्रमाविर्भवति / कथम् ? 'सदीपघटरूपवत् / ' तद्यथा तमसि विद्यमानस्य घटरूपस्य स्वात्मोद्भावनशक्तिः प्रदीपादिकारणसामग्रीसन्निधाने सति भवति तद्वदिति / इतश्चास्त्यनागतम् / / [309] जनोहाकर्तृ साध्यत्वात्पञ्चभावविकारवत् / तद्यथा अस्ति विपरिणमते वर्धते क्षीयते विनश्यतीति सति मुख्यसत्ताविष्टे कर्तरि एते पञ्च भावविकारा भवन्ति / तद्वज्जायत इत्ययमपि षष्ठः भावविकारः सति मुख्याविष्टे कर्तरि भवितुमर्हतीति / किञ्च जायमानता सत्ता नश्यता ना सामानाधिकरण्ये सत्यनन्यतापत्तिसङ्करदोषप्रसङ्गात् / वैयधिकरण्याभ्युपगमे संबन्धाभावादेकत्र तद्व्यपदेशानुपपत्तिः। किञ्च, जायमानतादिक्रियाभावेऽस्तिस्वायोगात् / कथम् ? शशविषाणवदिति / उपचारसत्तेति चेत् / न / मुख्यसत्तायां सत्यामुपचारसद्भावात्, वक्ष्यमान (ण)दोषाच्च / - इतश्चास्ति सतः कृ(क्रि) याङ्गतादृष्टेविकार्य प्राप्यकर्मवत् // तद्यथा विकार्ये कर्मणि सति करणं दृष्टं काशात्कटी करोति / प्राप्ये च कर्मणि सति ग्रामं गच्छति देवदत्तः सूर्यं च पश्यतीति गमनदशिक्रिये सति कर्मणि भवतः। तद्वनिर्वत्र्येऽपि कर्मणि मुख्यद्रव्यास्तित्वे सति देवदत्तक का घटक्रियोपपद्यत इति / / ___ सांख्यः पश्यति-विद्यमानमेव जायते / 'तद्यथा क्षीरे विद्यमानं दधि, कार्यकारणयोरेकत्वात् / तं प्रत्यपदिश्यते 1. See Nirukta, I. 2. 8. 18