________________ [307, 272 अभिधर्मदीपे कल्पयेत् वाग्वस्तुमात्रमेवास्य स्यात् / पृष्टो वा न संप्रजानीयादुत्तरे वा संमोहमापद्येत / यथापि तदविषयत्वात् / ' इति / किञ्च, अस्तिशशविषाणाभिधानाभिधेयवन्नास्त्युक्तिरपि वाग्वस्तुमात्रं विषाणाख्याभिधेयार्थसंबन्धविहीनम् / एतेन षष्ठः स्कन्धः प्रत्युक्तः / किञ्च, पञ्चस्कन्धविषयविपरीतज्ञानप्रतिषेधात् / अलातचक्रबुद्धिप्रतिषेधवत्, द्विचन्द्रबुद्धिप्रतिषेधवच्च / उक्त हि भगवता-"ये केचिदात्मेति समनुपश्यन्तः समनुपश्यन्ति सर्वे त इमानेव पञ्चोपादानस्कन्धान्समनुपश्यन्तः समनुपश्यन्ति"२ इति स्कन्धविषये चैषा नित्यात्म' द्रव्यभ्रान्तिरित्यवद्योत्यते। किञ्च, नत्रः सदसत्प्रतिषेध्यविषयत्वानुपपत्तेश्च / सन्तं तावदर्थं न प्रतिषेधुम(म्) समर्थः। यदि हि सन्तमर्थं शक्नुयात्प्रतिषेधुन राजानो हस्त्यश्वं वि (बि) भयुर्ण(न) सन्ति दस्यव इत्येवं ब्रू युः। इत्युक्त दस्यूनामभाव[:] स्यात् / न चैतदस्ति / अथासन्तं प्रतिषेधयति, तेनाभावप्रतिषेधाद्भाव एव स्यादिति / तस्मान्नो न गोविषाणादि[:] नापि शशः (श)[विषाणादि:] प्रतिषिध्यते / कि तहि / शशाकाशधातुसंबन्धबुद्धचपेक्षेण गोविषाणादिद्रव्यासंबन्धबुद्धयोऽवद्योत्यन्ते / सिद्धा सदालम्बनैव बुद्धिः / एवमन्यत्रापि // .. [307] रूपादौ वस्तुनि क्षीणे सत्येवोत्पद्यते मतिः / सा ज्ञानस्यासनाकारा शास्तुस्तथान्यचित्तवत् / रूपादौ खल्वपि वस्तुन्यभ्यतीते सत्येव बुद्धिरुत्पद्यते / न ह्यसदालम्बना बुद्धिरुत्पद्यते / सदालम्बना बुद्धिरस्तीत्युपपादितम् / न च नो द्रव्यं विनश्यतीत्युक्तम् / यदेतद रूपादिद्रव्यं पूर्वानुभूतं तदेव तत्स्मृत्या गृह्यत इत्युपरिष्टादपि साधयिष्यामः / या तर्हि निरुद्धदेवदत्तानुस्मृतिघंटानुस्मृतिर्वा, सा कथं जायते ? अतीतानाग[V. A, 8. Fol. 110 b:]1 तयोर्देवदत्तघटप्रज्ञप्त्युपादानयोरिति / अत्र ब्रूमः / सापि खलु साविद्यास्यासदाकारोत्पद्यते स्थान्वा (वा)दौ पुरुषादिबुद्धिवत् / निरविद्यस्य तु शास्तुस्तत्त्वाकारा भवति रूपादिधर्ममात्रबुद्धिरेव / 1 किञ्च भिक्खवे सब्बं / चक्टुं चेव रूपा च पे"मनो च धम्मा च / इदं वुच्चति भिक्खवे सब्बं / यो भिक्खवे एवं वदेय्य / अहमेतं सब्बं पच्चक्खाय अझं सब्बं पञापेस्सामीति / तस्य वाचावत्थुरेवम्स / पुट्ठो च न सम्पापेय्य / उत्तरिञ्च विघातं आपज्जेय्य / तं किस्स हेतु / यथा भिक्खवे अविसयस्मि ति / S IV. p. 15. V. supra p. 269, n. 1. 2 Cf. ये हि केचि भिक्खवे समणा वा ब्राह्मणा वा अनेकविहितमत्तानं समनुपस्समाना समनुपस्सन्ति / सब्बे ते पञ्चूपादानक्खन्धे समनुपस्सन्ति एतेसं वा अञ्जतरं / S. III. p. 46. See Sakv. p. 587.