________________ 306.] .. पञ्चमोऽध्यायः। 271 युक्तिरपि। ज्ञानज्ञेयाभिधानाभिधेयसंवन्धस्याकृतकत्वात् / नास्तिशशविषान(ण)मित्यस्य ज्ञानस्याभिधानस्य चासद्विषयत्वमिति चेत् / तत्र ब्रूमः अन्यापेक्ष्येऽथ संबन्धप्तिषेधोऽश्वशृङ्गयोः / / योऽयं नास्ति शशविषाणादिप्रतिषेधोऽस्य तहि किं प्रतिषेध्यम् ? यद्यसदालम्बना बुद्धिर्नास्त्यभिधानं वा निरभिधेयमिति ? अत्रापदिश्यते। 'अन्यापेक्ष्येऽथ संबन्धप्रतिषेधः / ' कार्यकारणादिस्त्रिविधः' संबन्धोऽत्र गोविषाणादिषु पूर्वदृष्टः शशविषाणादिषु प्रतिषिद्धयते / शशषि(शि)रोमात्रकाकाशधातुसंबन्धदशंणा(ना)द्यदि शशशिरस्या (स्य)पि विषाणम विष्यत्तद्वदेवोपलप्स्यत। न चोपलभ्यते / तस्मात्संबन्धान्तरापेक्षं शशविषाणशब्दगडुमात्रं नत्रा संबन्ध्यन्तर. संवन्धबुद्धयपेक्षेणावद्योत्यते, न तु किञ्चिदभिधानमभिधेयं वा प्रतिषेध्यात्मनः (ना) श्रीयत इति सिद्धं सर्वा बुद्धिः सद्विषयेति / *एतेनाजातं ध्वस्तं च गोविषाणं प्रत्युक्तम् / गोशिरसा (शिरो)मात्रमाकाशधातुवेष्टित(तं) दृष्ट्वाः (ष्ट्वा) जनिष्यते ध्वस्तं वा गोविषाणमिति द्रष्टव्यम् / त्रयोदशायतनप्रतिषेधबुद्धि विषयाद् अस्तित्वादसदालम्बना बुद्धिरस्तीति चेत् / न। भगवतैव वाग्वस्तुमात्रमेतदिति निर्णीतत्वात् / उक्त हि भगवता हस्तताडो(लो)पमे सूत्रे-"एतावत्सर्वं यदुत चक्षू रूपं च यावन्मनो धर्मांश्च / यः कश्चिदेतद् द्वयं प्रत्याख्यायान्य]द् द्वयं ज्ञेयमभिधेयं वा 1 संज्ञ'संज्ञि-ज्ञानज्ञेय-क्रियाकारणसंबन्धाः / V. infra, Adv. karika 313. 2. यद्यसदप्यालम्बनं स्यात्, त्रयोदशमप्यायतनं स्यात् / अथ त्रयोदशमायतनं नास्तीत्यस्य किमालम्बनम् ? एतदेव नामालम्बनम् / एवं तर्हि नाम एव नास्तीति प्रतीयेत / यश्च शब्दस्य प्रागभावमालम्बते किं तस्यालम्बनम् / शब्द एव / एवं तहिं यः शब्दाभावं प्रार्थयते तस्य शब्द एव कर्तव्यः स्यात् / अनागतावस्थ इति चेत् / सति कथं नास्तिबुद्धिः / वर्तमानो नास्तीति चेत् / न / एकत्वात् / यावता तस्य विशेषस्तस्याभूत्वाभावसिद्धिः / तस्मादुभयं विज्ञानस्यालम्बनं भावश्चाभावश्च / Akb. v. 27 ab. त्रयोदशमप्यायतनमालम्बनं स्यादिति / त्रयोदशानामायतनानां त्रयोदशमायतनम् / तद्विज्ञानस्यालम्बनं स्यात् / असदालम्बनत्व इष्यमाणे तदालम्बनं वा विज्ञानं स्याद् / एवं वैभाषिके गोक्ते प्राचार्य आह-अथ त्रयोदशमिति विस्तरः / एतदेव नामेति वैभाषिकाः / यदेतन्नाम त्रयोदशमायतनमिति / तदालम्बनम् / एवं तर्हि मामैव नास्तीति . प्रतीयेत / नाभिधेयं त्रयोदशायतनामावलक्षम् / किं च यश्च शब्दस्य प्रागभावमालम्बते, किं तस्यालम्बनम् / भवतीति वाक्यशेषः। एवं प्रकृते वैभाषिक प्राह-शब्द एवालम्बनमिति प्रकृतम् / एवं तीति विस्तरेणाचार्यः।"Saks. p. 475.