________________ 270 अभिधर्मदीपे [306. तथा--"त्रयाणां सन्निपातः स्पर्शः / सहजाता वेदना"' इति विस्तरः / एतेनाभिधानाभिधेयसंबन्धः प्रत्युक्तः / तदेवं सति सूत्रेऽस्मिन्मध्यमाप्रति पत्प्रदशिता / यदुत-केनचित्प्रकारेण शून्याः संस्काराः मिथ्यापरिकल्पितेन पुरुषालयविज्ञानाभूतपरिकल्पादिना। केनचिदशून्याः, यदुत-स्वलक्षणसामान्यलक्षणाभ्यामिति / यथा कात्यायत (-य)न सूत्रे-"लोकसमुदयं ज्ञात्वा या लोके नास्ति ता सा न भवति / लोकनिरोध ज्ञात्वा या लोकेऽस्ति ता सा न भवति इतीमौ[V. 8. Fol. 110a] 'द्वावन्तौ परित्यज्य मध्यमया प्रतिपदा तथागतो धर्म देशयति / "3 न चैतद् द्व [यम]स्तिनास्तित्वाख्यमेकाधिकरणं विरोधादुपपद्यते न च निरधिष्ठानम् / नापि खपुष्षशून्याधिष्ठितम् / तु सन्तमेवास्तीति पश्यामीत्ययं तत्राभिप्रायः / इतरथा हि सर्वबुद्धीनां सदालम्बनत्वे कुतोऽस्य विमर्शः स्यात्, को वा विशेषः / इत्यं चैतदेवम् / Akb. V. 27 ab. -यद्यभावो विज्ञानस्यालम्बनं यत्तीति विस्तरः / बोधिसत्वे चरमभाविकेनवमुक्तम्यल्लोके नास्ति, तज्ज्ञास्यामीत्येष सम्भवो नास्तीति वचनादभावालम्बनं न भवतीति दर्शितं भवति / प्राचार्योऽन्याभिप्रायतामस्य सूत्रस्य वर्शयन्नाह-अपरे आभिमानिका इति विस्तरः / अपरिशुद्धसमाधयोऽपरे " असन्तमप्यवभासं दिव्यचक्षुरवभासं प्रयोगावस्थायां सन्तमित्येवं पश्यन्ति / अहं तु सन्तमेवावभासं पूर्वरूपं दिव्यचक्षुषोऽस्तीति पश्यामीत्ययमत्र सूत्रेऽभिप्रायः / कुतोऽस्य विमर्श इति / सर्वबुद्धीनां सद्विषयत्वे व्यवस्थाप्यमाने कुतोऽस्य विमर्शविचारः सन्देहो वा स्यात् / यदुत लोके नास्तीति विस्तरेण य उक्तः / सदसदालम्बने तु बुद्धीनामयं विमर्श. सम्भवति / नान्यथा। को वा विशेष इति / को वा बोधिसत्त्वस्यान्येभ्यो विशेषः, यदि तेऽपि सन्तनेवावभासं पश्यन्ति नासन्तम् / सदसदालम्बनत्वे हि बुद्धीनामयं विशेषो भवति / इत्थं चैतदेवं सत्, असदालम्बना बुद्धय इति / Saks. pp. 475-6. 1 Cf. चक्खुञ्चावुसो पटिच्च रूपे च उप्पज्जति चवखुविझाणं, तिणं संगति फस्सो, फस्सपक्चया वेदना M. satta 18. 2 कायं स्वसामान्यलक्षणाभ्यां परीक्षते / वेदनां चित्तं धर्माश्च / स्वभाव एवैषां स्वलक्षणम् / सामान्यलक्षणं तु अनित्यता संस्कृतानां दुःखता सास्रवाणां शून्यताऽनात्मते सर्वधर्माणाम् / Ab. VI. 14 cd.-'स्वभाव एवैषां स्वलक्षणम्' / क: स्वभावः ? कायस्य भूतभौतिकत्वम् / वेदनाया अनुभवत्वम् / चित्तस्योपलब्धित्तम् / Salev. p. 529. See LVPAR VI. p. 158. -3 Cf. कित्तावता नु खो भन्ते सम्मादिट्टि होती ति? द्वयनिस्सितो स्वायं कच्चायन लोको येभुय्येन अत्थितं च नत्थितं च / लोकसमुदयं खो कच्चायन यथाभूतं सम्मपञ्चाय पस्सतो या लोके नस्थिता सान होति / लोकनिरोधं खो कच्चायन यथाभूतं सम्मप्पाय पस्सतो या लोके अत्थिता सा न होति / S. II. p. 17.