________________ 269 306.] पञ्चमोऽध्यायः। [306] नासदालम्बना बुद्धिरागमादुपपत्तितः / * आगमस्तावत्-"चक्षुः प्रतीत्य रूपं चोत्पद्यते चक्षुर्विज्ञानं यावन्मनः प्रतीत्य धर्माश्चोत्पद्यते मनोविज्ञानम् / एतावच्चैतत्सर्वमस्ति"' इत्युक्त भगवता / तत्र मनोविज्ञानं त्रैयध्विकासंस्कृतधर्मविषया [यम], पञ्चविज्ञानकायाः प्रत्युत्पन्नपञ्चविषयालम्बनाः। न तु क्वचिदसा (स) [दा] लम्बनमुक्त नापि तदस्तीति तद्विषयबुद्धयभावः / / तथोक्तम्- "यद्व(दु)त लोके नास्ति तदहं द्रक्ष्यामि" इति विस्तरः / 1Cf. सम्बं वो भिक्खवे देसिस्सामि / किञ्च भिक्खवे सम्बं? चक्खं चैव रूपा च। सोतञ्च सद्दा च / घानश्च गन्धा च / जिह्वा रसा च / कायो च फोटुम्बा च / मनो च धम्मा च / इदं वुच्चति भिक्खवे सब्बं / S. IV. p. 15. See S. IV. pp. 15-30. V. supra, p. 3, n. The Pali passage is according to the āyatanadeśanaइति छन्नं विज्ञाणकायानं उप्पत्तिद्वारारम्मणतो द्वादस वुत्तानी ति / Vm. xv. 10. ___For the dhatu-desand, see the following:-चक्खुञ्च पटिच्च रूपे च उप्पज्जति चवखुविञ्थाणं / सोतं च पटिच्च "मनञ्च पटिच्च धम्म च उप्पज्जति मनोविज्ञाणं "S. II. p. 72. - 2 यदप्युक्तम् "द्वयं प्रतीत्य विज्ञानस्योत्पादात्" इतीदं तावदिह सम्प्रधार्यम् / यन्मनः प्रतीत्य धर्माश्चोत्पद्यते मनोविज्ञानं, किं तस्य यथा मनो जनकः प्रत्यय एवं धर्मा आहोस्विदा. लम्बनमात्रं धर्मा इति / यदि तावत् जनकः प्रत्ययो धर्माः कथं यदागतं कल्पसहस्रेण भविध्यति वा न वा तदिदानी विज्ञानं जनयिष्यति / निर्वाणं च सर्वप्रवृत्तिनिरोधाजनक नोपपद्यते / अथालम्बनमात्रं धर्मा भवन्ति, अतीतानागतमप्यालम्बनं भवतीति ब्रूमः / यदि नास्ति कथमालम्वनम् / . अत्रेदानी ब्रूमः / यदा तदालम्बनं तथास्ति / कथं तदालम्बनम् / अभूत् भविष्यति चेति / नहि कश्चिदतीतं रूपं वेदनां वा स्मरन्नस्तीति पश्यति / कि तहि / अभूदिति / यथा खल्वपि वर्तमान रूपमनुभूतं तथा तदतीतं स्मयते / यथा चानागतं वर्तमानं भविष्यति तथा बुद्धया गृह्यते / यदि च ततथैवास्ति वर्तमान प्राप्नोति / अथ नास्ति, असदप्या. लम्बनं भवतीति सिद्धम् / तदेव तद्विकीर्णमिति चेत् / न / विकीर्णस्याग्रहणात् / यदि च तत्तदेव रूपं केवलं परमाणुशो विभक्तम् / एवं सति परमाणवो नित्याः प्राप्नुवन्ति / परमाणुसंचयविभागमात्रं चैवं सति प्राप्नोति / न तु किचिदुत्पद्यते नापि निरुध्यत इत्याजीवि. कवाद प्रालम्बितो भवति / सूत्रं चापविद्धं भवति / 'चक्षुरुत्पद्यमानं न कुतश्चिदागच्छती'ति विस्तरः। अपरमाणुसंचितानां वेदनादीनां कथं विकीर्णत्वम् / तेऽपि च यथोत्पन्नानुभूताः स्मर्यन्ते / यदि च ते तथैव सन्ति नित्याः प्राप्नुवन्ति / अथ न सन्ति, असदप्यालम्बनमिति सिद्धम् / Akb. v. 27 ab. See Sakv. p. 474. 3 Cf. यहि बोधिसत्वेनोक्तम्-'यल्लोके नास्ति तदहं ज्ञास्यामि वा द्रक्ष्यामि वा नेवं स्थानं विद्यत" इति / अमरे आभिमानिका भवन्त्यसन्तमप्यवभासं सन्तं पश्यन्ति / अहं