________________ 268 अभिधर्मदीपे [305. सांख्याः खल्वप्याचक्षते-"चक्षुष्प्रधानादागच्छति तत्रैव च पुनर्विगच्छति" इति। तन्निरासार्थ च भगवानवोचत्-"चक्षरुत्पद्यमानं न कुतश्चिदागच्छति / " अदेशप्रदेशस्थाः खल्वनागतातीतपरमाण्वविज्ञप्तिसंज्ञिता धर्मः(सः) इति तदागमनगमनानुपपत्तिः / कस्तहि वाक्यार्थ। - "अभूत्वा भवति / भूत्वा च प्रतिविगच्छति"' इनि? द्विविधं हि चक्षुर्द्रव्यसदेव परमार्थसतो यदप्रबुद्धमुभयम् (?) / अन्यत्प्रबुद्धमनु(-द्धमु ?)पात्तक्रियम्। पूर्व तद्धेतून्प्रतीत्य क्रियामुपादत्ते प्रबुध्यत इत्यर्थः। उपात्तक्रियं च द्वितीयम् / तद्धि क्रियामुज्झत्प्रतिविगच्छतीत्युक्तं भवति / सांख्यमतनिषेधार्थं वा। सांख्यानां खल्वेकं कारणं नित्यं स्वां जातिमजहत्तेन तेन विकारविशेषात्मना भूत्वा भूत्वाऽन्येनान्येन कार्य विशेषात्मना परिणमतीति / तत्प्रतिषेधार्थं भगवानवोचत्-"चक्षुरुत्पद्यमानं न कुतश्चि. दागच्छति निरुध्यमानं न क्वचित्संनिचयं गच्छति" इति / चक्षुरभूत्वा वर्तमानेऽध्वनि क्षणमात्रं क्रियारूपमादाय त्यक्त्वा पुनरदर्शनं गच्छति / किञ्चान्यत्, अत एवानागतास्तित्वसिद्धेः। यदुक्तमस्मिन्नेव सूत्रे चक्षुरुत्पद्यमानं न कुतश्चि दागच्छति" इत्यत्रैतदादर्शितम् / सदिदं चक्षुरन्तरङ्गबहिरङ्गकारणसामग्रीसन्निधानोपाधिवशेन क्रियामुपाददानं न कुतश्चिदागच्छति / कुतः पुनस्तत्सत्त्वमिति चेत् / मुख्यसत्ताविष्टे कर्तरि शानचो विधानानिरुध्यमानवदिति / तस्मा[] दुविहितवेताडोत्थानवत् सौत्रान्तिकैः स्वपक्षोपघाताय सूत्रमेतदाश्रीयते / "एवं तावदागमात्सिद्धमध्वत्रयास्तित्वम्। युक्तितोऽपि-धीनामगोचरत्वाच्च तत्सत्त्वं वर्तमानवत् / '2 तदाकारया खलु बुद्धया यस्यार्थस्य स्वसामान्यलक्षणं परिच्छिद्यते, यश्च बुद्धोक्तनामकायधर्मकायाभ्यां (ग्या)मभिद्योत्यते स परमार्थतो विद्यते / कथम् ? वर्तमानचक्षुरूपादिवत् / ज्ञानज्ञेयाभिधानाभिधेयसंबन्ध [:] खल्वकृतक' इति शिष्टात(ः) प्रतिपद्यन्ते / / असदालम्बनाऽपि बुद्धिरस्तीति चेत् / अत्रापदिश्यते१cf. एवं किर मे धम्मा अहुत्वा सम्भोन्ति, हुत्वा पटिवेन्ति / M. sutta 111. Also cf. राजा आह-भन्ते नागसेन, अस्थि केचि सङ्घारा ये अभवन्ता जायन्ती'ति ? नन्थि महाराज केचि सङ्घारा ये अभवन्ता जायन्ति / भवन्ता येव खो महाराज सङ्घारा Frucat'far I Milinda, p. 55. See Vm. XX. 96 and Yogasutra, IV. 12: Ad. karika 305 ab.