________________ 305.] पञ्चमोऽध्यायः / -267 विस्पष्टमनागतादिनास्तित्वं प्रदर्शितम्। तत्र ह्यक्तम्- "चक्षुरुत्पद्यमानं न कुतश्चिदागच्छति, निरुध्यमानं न क्वचित्संनिचयं गच्छति" इति विस्तरः / / अतीतानागतसद्भावे चागतिगतिदोषो (षा)भ्युपगमः प्राप्नोतीति / एतच्च न। कुतः ? सूत्रार्थापरिज्ञानात् / अत एवानागताद्यस्तित्वसिद्धेश्च / . सूत्रस्य तावदयमर्थः / यदुक्तम्-"चक्षुरुत्पद्यमानं न कुतश्चिदागच्छति, निरुध्यमानं न क्वचित्संनिचयं ग[V. A, 7. Fol. 109 b.]च्छति" इति तद्वदोक्तवादविधिप्रतिषेधार्थ सांख्य मतव्युदासार्थं च / वेदे ह्यक्तम् -- “पञ्चत्वगापद्यमानस्य चक्षुरादित्यादागतं पुनस्तत्रैव प्रतिविगच्छति / श्रोत्रमाकाशम् / घ्राणं पृथिवीम्। जिह्वा आपः। कायो वायुम् / मनः सलिलं सोममित्यर्थः / "3 तत्प्रतिषेधार्थ भगवानवोचत्"चक्षुरुत्पद्यमानं न कुतश्चिदागच्छति" इति विस्तरः / 1Cf. इत्थं चैतदेवं यत परमार्थशून्यतायामुक्तं भगवता-"चक्षुरुत्पद्य मानं "संनिचयं गच्छति / इति हि भिक्षवश्चक्षुरभूत्वा भवति भूत्वा च प्रतिविगच्छति" इति / Akb. v. 27 ab. See LVPAh. v. p. 59, n. 3. Also cf. यथैव चक्खुवित्राणं मनोधातु अनन्तरं / न चैव आगतं नापि न निम्बत्तं अनन्तरं // Vm. XIX. 23. ... सो एवं पजानाति-इमस्स नामरूपस्स उप्पत्तितो पुब्वे अनुप्पन्नस्स रासि वा निचयो वा नत्थि, उप्पज्जमानस्सापि रा|सतो वा निचयतो वा आगमनं नाम नत्थि, निरुज्झमानस्सापि दिसाविदिसागमनं नाम नत्थि, निरुद्धस्सापि एकस्मि ठाने रासितो निचयतो निधानतो अवट्ठानं नाम नस्थि / यथा पन वीणाय वादियमनाय उप्पन्नस्स सद्दस्स नेव * उप्पत्तितो पुब्बे सन्निचयो अत्थि""न निरुद्धो कत्थचि सन्निहितो तिति, अथ खो वीणञ्च उपवीणञ्च पुरिसस्स च तज्ज वायाम पटिच्च अहुत्वा सम्भोति, हुत्वा पटिवेति एवं सम्बे पि रूपारूपिनो धम्मा हुत्वा सम्भोन्ति हुत्वा पटिवेन्तीति ! Vm. XX. 36. Also see-षडिमे महाराज धातवः षडिमानि स्पर्शायतनानि "अष्टादशेमे मनउपविचाराः। तत्र महाराजाध्यात्मिकः पृथ्वीधातुः उत्पद्यमानो न कुतश्चिदागच्छति, निरुध्यमानो न क्वचित्संनिचयं गच्छति " B. Paijika, IX. 88. See Siksha, p. 229. 2 Cf. यदि चानागतं चक्षु स्यानोक्तं स्याद् 'भूत्वा न भवतीति / वर्तमानेऽध्वन्यभूत्वा भवतीति चेत् / न / अध्वनो भावादनन्तरत्वात् / अथ स्वात्मन्यभूत्वा भवति, सिद्धमिदमनागतं चक्षुर्नास्तीति / Akb. v. 27. ab. See B. Panjika, IX. 142 ab. 3 Cf. यज्ञवल्क्येति होवाच यत्रास्य पुरुषस्य मृतस्याग्नि वागप्येति वातं प्राणश्चक्षुरादित्यं मनश्चन्द्रं दिशः श्रोत्रं पृथिवीं शरीरमाकाशमात्मौषधीोमानि वनस्पतीन्केशा अप्सु लोहितं च रेतश्च निधीयते"Brihad aranyakopanishat, III. 2. 13.