________________ 264 अभिधर्मदीपे . [305 [305] सदतीतासमुत्पन्न बुद्धोक्त वर्तमानवत् / धीनामगोचरत्वच्च तत्सत्त्वं वर्तमानवत् // उक्त हि भगवता- "अस्ति भिक्षवोऽतीतं रूपं नोचेदतीतं रूपं अभविष्यन्नेमे सत्त्वा अतीते रूपे समरञ्ज्यन्तः / यस्मात्तह्य स्त्यतीतं रूपं तस्मादिमे सत्त्वा अतोते रूपे संरञ्ज्यन्ते / ' एवमनागतप्रत्युत्पन्न (न) चेति वाच्यम् / विभक्तिप्रतिरूपकोऽयं निपात इति चेत् / ' न। वर्तमानेऽपि तत्प्रसङ्गात् / क्रियावचनेन चोत्तरपदेन पूर्वस्य क्रियावचनस्यैव पदस्य सामानाधिकरण्यात् / 1 Cf. सर्वकालास्तितोक्तस्वात् / उक्त हि भगवता-"अतीदं चेद् भिछवो रूपं नाभविष्यन्न. श्रुतवानार्यश्रावकोऽतीते रूपेऽनपेक्षोऽभविष्यत् / यस्मात्तह्य स्त्यतीतं रूपं..." | Akb. v. 25 a. Also cf. "अतीते राध रूपे अनपेक्खो होहि, अनागतं रूपं मा अभिनन्दि, पच्चुप्पन्नस्स रूपस्स निम्बिदाय विरागाय निरोधाय चागाय पटिनिस्सग्गाय पटिपज्जा"ति / guoted in Netti. p. 30. See M. suttas 109, 132, 133, Madhyamaka-vritti, XII. 11. This passage from Scriptures provides the first argument for the case of sarvastivada of the Vaibhashika:-"अथासत्यतीतानागते कथं तेन तस्मिन् वा संयुक्तो भवति?" The answer of the Sautrantika is : "तज्जतद्धत्वनुशयभावात् क्लेशेन तदालम्बने क्लेशानुशयभावाद्वस्तुनि संयुक्तो भवति / ' Akb. v. 27 c. See. Sakv. p. 477 and The Central Conception of Buddhism, p. 90. 2 यतूक्तमुक्तावादिति / वयमपि बमोऽस्त्यतीतानागतमिति / अतीतं तु यद्भूतपूर्वम् / अनागतं यत्सति हेतो भविष्यति / एवं च कृत्वास्तीत्युच्यते / न पुनद्रव्यतः / कश्चैवमाह वर्तमानवत्तदस्तीति / कथमन्यथाऽस्ति / अतीतानागतात्मना। इदं पुन तवोपस्थितम् / कथं तदतीतमनागतं चोच्यते यदि नित्यमस्तीति / तस्माद्यत् भूतपूर्वस्य च हेतो विनश्च फलस्य भूतपूर्वतां भावितां च ज्ञापयितुं हेतुफलापवाददृष्टिप्रतिषेधार्थमुक्तं भगवता-'प्रस्त्यतीतमनागतमिति / ' अस्ति शब्दस्य निपातत्वात् / यथा अस्ति बीपस्य प्रागभावोऽस्ति पश्चादभाव इति वक्तारो भवन्ति यथा चास्ति निरुद्धः स दीपो न मया निरोधित इति / एवमतीतानागतमध्यस्तीत्युक्तम् / अन्यथा ह्यतीतानागतभाव एव न सिध्येत् / Akb. v, 27 c. -आसीदतीतं भविष्यत्यनागतमिति वक्तव्येऽस्तीतिवचनमस्तिशब्दस्य निपातस्वात् / त्रिकालविषयो हि निपातः। आसीदर्थे भविष्यदर्थेऽपि प्रवर्तते / यथाऽस्ति दीपस्येति विस्तरः / 'न चास्ति प्रयोगाग्निरुद्धोऽप्यसावस्तीति / ननु च वैभाषिकस्य निद्धोऽप्यसावस्तीति / सत्यमस्ति / न तु प्रदीपरूपतामेव बिभ्राणः सोऽस्ति / "यदि तेनैव लक्षणेन विद्यतातीतानागत एव न सिध्यदित्यर्थः / Sakv. p. 473. See B. Panjika, IX, 143 ab. Vi infra, Adv. karika 319, notes.