________________ 262 अभिधर्मदीपे [304 [304 बुद्धया यस्येक्ष्यते चिह्न तत्संज्ञेयं चतुविधम् / ___परमार्थेन संवृत्या द्वयेनापेक्षयाऽपि च // ' यस्य खल्वर्थवस्तुन (नः) स्वभावसिद्धस्वरूपस्याविपरी'ताकारया धर्मोपलक्षणया परिच्छिन्नं लक्षणमुपलक्ष्यते तत्स [द्] द्रव्य मित्युच्यते / तत्पुनः सत् प्रतिभिद्यमान(नं) चतुर्विधं भवति। 9 This topic is discussed in the Sixth Kosasthana of Akb :""द्वे अपि सत्ये संवृतिसत्यं परमार्थसत्यं च / तयोः किं लक्षणम् ? यत्र भिन्ने न तद्बुद्धिरन्यापोहे धिया च तत् / - घटाम्बुवत्संवृतिसत् परमार्थसवन्यथा // यस्मिन्नवयवशो भिन्ने न तद्बुद्धिर्भवति तत् संवृतिसत् / तद्यथा घटः / तत्र हि कपालशो भिन्ने घटबुद्धिर्न भवति / यत्र चान्यानपोह्य धर्मान् बुद्धया तबुद्धिर्न भवति तच्चापि संवृतिसद्वेदितव्यम् / तद्यथाम्बु / तत्र हि बुद्धया रूपादीन् धर्मानपोह्याम्बुबुद्धिर्न भवति / तेष्वेव तु संवृतिसंज्ञा कृतेति संवृतिवशात् घटश्चाम्बु चास्तीति ब्रुवन्तः सत्यमेवाहुन मृषेत्येतत् संवृतिसत्यम् / अतोऽन्यथा परमार्थसत्यम् / तत्र भिन्नेऽपि तद्बुद्धिर्भवत्येव / अन्यधर्मापोहेऽपि बुद्धया तत् परमार्थसत् / तद्यथा रूपम् / तत्र हि परमाणुशो भिन्ने वस्तुनि रसाहनिपि च धर्मानपोह्य बुद्धया रूपस्य स्वभावबुद्धिर्भवत्येव / एवं वेदनादयोऽपि द्रष्टव्याः। एतत् परमार्थेन भावात् परमार्थसत्यमिति / . यथा लोकोत्तरेण ज्ञानेन गृह्यते तत् पृष्ठलब्धेन वा लौकिकेन तथा परमार्थसत्यम् / यथाऽन्येन तथा संवृतिसत्यमिति पूर्वाचार्याः / Akb. VI. 4. --'संवृतिसत्' इति / संव्यवहारेण सत्' / 'परमार्थत सत्' इति / परमार्थेन सत् / स्वलक्षणेन सदित्यर्थतः। एवं वेदनादयोऽपि द्रष्टव्याः' इति / वेदना-चेतना-संज्ञादयोऽपि द्रव्यसन्त एव द्रष्टव्याः। कथम् ? वेद (चेत)नादीन् धर्मानपोह्य बुद्धया वेदनास्वभावे बुद्धिर्भवतीत / द्रव्यसती वेदना / एवं संज्ञा चेतनादयोऽपि योज्या: / " 'न म'ति / संवतिसत्यस्य वचने प्रयोजनं दर्शयति / उक्तं च 'द्वे सत्ये समुपाश्रित्य बुद्धानां धर्मदेशना। लोकसंवृतिसत्यं च सत्यं च परमार्थतः॥" इति [Madhyamika-karika,XXIV. 8]. तथा ‘परमार्थसत्यम्' इति / परमस्य ज्ञानस्यार्थः परमार्थः / "यथा अन्येन ज्ञानेन लौकिकेन गृह्यते तथा संवृतिसत्यम् / संवृत्या संव्यवहारेण ज्ञानेन वा क्लिष्टेनाक्लिष्टेन वा गृह्यत इति संवृतिसत्यम् / त्रिविधं हि योगाचाराणां सत् / परमार्थ-संवृतिसत् व्रव्यसच्च / द्रव्यतः स्वलक्षणतः सत् द्रब्यसदिति / Salev. p. 5 24. See also--सर्वमेवासंस्कृतमद्रव्यमिति सौत्रान्तिकाः / Akb. II, 55. cd.