________________ 303] . पञ्चमोऽध्यायः। 261 इत्यतस्तृतीय एवापदोषः / यस्मात्[303] कारित्रेणाध्वनामेप व्यवस्थामभिवाञ्छति। तत्कुर्वन्वर्तमानोऽध्वा कृतेऽतीतोऽकृते परः // ' ये खलु भगवतोक्ताः स्वभावसिद्धास्त्रैयाध्विका धर्मा अतीतानागतप्रत्युत्पन्नास्तेषामयमाचार्यः क्रियाद्वारेणावस्थाभेदमिच्छत्यजहत्स्वरूपो हेतुसामग्रीसन्निधानप्रबोधितशक्तिः / क्रियावा[न्] हि संस्कारो वर्तमान इत्युच्यते / स एव त्यक्तक्रियोऽतीतोऽनुपात्तक्रियोऽनागतः। इत्येवं च सति कालत्रयस्यैकाधिकरण्यमेकाधिष्ठानव्यापारपरिच्छेद्यत्वं चोपपन्नम्। अन्यथैकः (क) द्रव्यजातिनिमित्ताभावे वैयधिकरण्ये सति कालत्रयसंबन्धाभावः प्राप्नुयादिति / 2 अत्राह चोदकः-न, अतीतानागतस्यार्थस्य प्रज्ञप्त्या व्यपदेशसिद्धेः / न, परमार्थद्रव्याभावे निरधिष्ठानप्रज्ञप्तिव्यपदेशानुपपत्तेः। व[V.B, 7. Fol. 109a]'र्तमानापेक्ष्यस्तव्यपदेश इति चेत् / न / वर्तमानस्वरूपस्थितिशक्तिक्रियाभावे सत्त्वानुपपत्तेः, सदसतोरपेक्षासंबन्धाभावाच्च / सत्त्वलक्षणमिदानीमेव द्योत्यते अतीतादीनां पदार्थानाम् 1 Cf. तृतीयः शोभनोऽध्वानः कारित्रेण व्यवस्थिताः / Ak. v. 26 cd. यदा स धर्मः कारित्रं न करोति तदाऽनागतः / यदा करोति तदा प्रत्युत्पन्नः। यदा कृत्वा निरुद्धस्तदाऽतीत इति / Akb. v. 26 cd. - 'तृतीयः शोभनः' इति वैभाषिकः / 'कारित्रं पुनः चक्षुरादीनां दर्शनादीनीति / रूपादीनामपि स्वेन्द्रियगोचरत्वम् / Saks. p. 471. 2 अवस्थापरिणामे कोटस्थ्यदोषप्रसङ्गदोषः कश्चिदुक्तः / कथम् / अध्वनो व्यापारेण व्यवहितत्वाद्यदा धर्मः स्वव्यापारं न करोति तदानागतो यदा करोति तदा वर्तमानो यदा कृत्वा निवृत्तस्तदातीत इत्येवं धर्ममिणोर्लक्षणानामवस्थानां च कौटस्थ्यं प्राप्नोतीति परैर्दोष उच्यते / नासो दोषः। कस्मात् ? गुणिनित्यत्वेऽपि गुणानां विमर्दवैचित्र्यात् / तत्रेदमुदाहरणम्मुद्धर्मी पिण्डाकाराद्धर्माद्धर्मान्तरमुपसम्पद्यमानो धर्मतः परिणमते घटाकारमिति / घटाकारोऽनागतं लक्षणं हित्वा वर्तमानलक्षणं प्रतिपद्यत इति लक्षणत : परिणमते। घटो नवपुराणतां प्रतिक्षणमनुभवन्नवस्थापरिणामं प्रतिपद्यत इति / धर्मिणोऽपि धर्मान्तरमवस्था धर्मस्यापि लक्षणान्तरमवस्थेत्येक एव द्रव्यपरिणामो भेदेनोपदर्शित इति / Yoga-bhashya, III. 13. On prajnapti (pannatti), see Dhs. 1306--7, Dhs. A. v. 112, Vm. VII. 54, A. Malatika, pp. 129-131, and JPTS. 1913-14, pp, 124-9V. infra, Adv. karika 319.