________________ 260 अभिधर्मदीपे [302. एकस्यां स्त्रियां रक्तोऽन्यास्वविरक्तः / तदस्याप्यध्वसंकरो' भवत्येकस्य धर्मस्य विलक्षणयोगाभ्युपगमात् / एषोऽपि पुरुषकारणि (?)वागुरायां प्रवेशयितव्यः / अवस्थाऽन्यथिको भदन्तवसुमित्रः। स खल्वाह-धर्मोऽध्वसु प्रवर्तमानोऽवस्थामवस्थां प्राप्याऽन्यथाऽन्यथाऽस्तीति निर्दिश्यते / प्रवस्थान्तरविशेषविकारात्स्वभावापरित्यागाच्च / यथा निक्षेपवतिकैकाविन्यस्तैकेत्युच्यते, सैव शताङ्के शतं सहस्राङ्के सहस्रमिति / / अन्यथाऽन्यथिको भदन्तबुद्धदेवः / स ब्रते। धर्मोऽध्वसु प्रवर्तमानस्या(-मानः) पूर्वापरमवेक्ष्यान्यथा चान्यथा चोच्यते। नैवास्य भावान्यथात्वं भवति द्रव्यान्यथात्वं वा। अथैका स्त्री पूर्वापरमपेक्ष्य माता चोच्यते दुहिता च। तद्वद्धर्मोऽनागतप्रत्युत्पन्नमवे(पे)क्ष्यातीत इत्युच्यते। तथेतरोऽपीतरद्वयमपेक्ष्येति / 3 अस्याप्येकस्यातीतस्याध्वनः पूर्वोत्तरक्षण त्र(द्व)यमपेक्ष्याध्वत्रित्वापत्तिदोषप्रसङ्गः। तदेभ्यश्चतुर्यः सर्वास्तिवादेभ्यस्तृतीयः स्थविरवसुमित्रः पञ्चविंशतितत्त्वनिरासी परमानु(णु)संचयवादोन्माथी' च / इत्यतोऽसावेव युक्त्यागमानुसारि[त्वा]दाप्तः प्रामाणिक इत्यध्यवसेयम् / / भदन्तबुद्धदेवोऽपि तीर्थ्यपक्ष्यभजमानत्वान्न परिगृह्यते / / भदन्तघोषकोऽप्यध्वसंकरवादित्वादेकैकस्याध्वनोऽध्वत्रयलक्षणभाग्भवति / 1 द्वितीयस्याध्वसङ्करः प्राप्नोति / सर्वस्य सर्वक्षणयोगात् / पुरुषस्य तु कस्यांचित स्त्रियां रागः समुदाचरति कस्यांचित् केवलं समन्वागम इति किमत्र साम्यम् / Akb. V. 26.ab. Cf. अत्र लक्षणपरिणामे सर्वस्य सर्वलक्षणयोगादध्वसङ्करःप्राप्नोतीति परर्दोषश्चोद्यत इति / तस्य परिहार: धर्माणां धर्मत्वमप्रसाध्यम् / सति च धर्मत्वे लक्षणभेदोऽपि वाच्यो न वर्तमानसमय एवास्य धर्मत्वम् / एवं हि न चित्तं रागधर्मकं स्यात्, क्रोधकाले रागस्यासमुदाचारादिति / किञ्च त्रयाणां लक्षणानां युगपदेकस्यां व्यक्ती नास्ति सम्भवः / क्रमेण तु स्वव्यञ्जकाञ्जनस्य भावो भवेदिति ' roga-bhashya, III. 13.. 2 Cf. धर्मास्तु व्यध्वानस्ते लक्षिता अलक्षितास्तत्र लक्षितास्तां तामवस्थां प्राप्नुवन्तोऽन्यत्वेन प्रतिनिर्दिश्यन्ते / अवस्थान्तरतो न द्रव्यान्तरतः। यथैका रेखा शतस्थाने शतं दशस्थाने दश एकाचेकस्थाने। Ibid. 3 Cf. यथा चैकत्वेऽपि स्त्री माता चोच्यते दुहिता च स्वसा चेति / Ibid. 4 Cf. चतुर्थस्याप्येकस्मिन्नेवाध्वनि त्रयोऽध्वानः प्राप्नुवन्ति / अतीतेऽध्वनि पूर्वपश्चिमी क्षणावतीतानागतो मध्यमः क्षणः प्रत्युत्पन्न इति / एवमनागतेऽपि Ab. v. 26 ab.