________________ 302.] पञ्चमोऽध्यायः। 259 वैनाशिकनग्नाटपक्षे प्रक्षेप्तव्याः। इत्यतश्च सर्व सर्वगतमुपदर्ष (श)[V.A, 6. Fol. 108 b.]"यिष्यामीति // कः पुनरयं सर्वास्तिवादी साधुता (तां) भजते ? तदिदमवद्योत्यते / एष खलु वादी [301] इच्छत्यध्वत्रयं यस्मात] कृत्यतश्च ध्रुवत्रयम् / __ सर्वास्तिवाद इत्युक्तस्तस्मादायश्चतुर्विधः // खल्वेष सर्वास्तिवादश्चतुर्धा भेदं प्रतिपन्नः / कथम् ? तदारभ्यते[302] भा[वाङ्काऽन्यथिकाख्यौ द्वाव[वस्थाऽन्यथिको परः / अन्यथाऽन्यथिकश्चान्यः, तृतीयो युक्तिवाद्यतः // ' तत्र भावान्या(न्य)थिको भदन्तधर्मत्रातः। स ह्येवमाह-धर्मस्याध्वसु प्रवर्तमानस्यानागतादिभावमात्रमन्यथा भवति / न द्रव्यान्यथात्वम् / यथा सुवर्णस्य कटकादिसंस्थानान्तरेण कृ (क्रि)यमान(ण)स्य पूर्वसंस्थाननाशे / सुवर्णनाशः। क्षीरस्य वा दधित्वेन परिणमतो यथा रसवोर्यविपाकपरि. त्यागो न वर्णस्येति / 3 तदेष वार्षगण्यपक्षभजमानत्वात्तद्वर्य एव द्रष्टव्यः / यस्मात् एषोऽवस्थितस्य द्रव्यस्य जातिलक्षणस्य समुदायरूपस्य वाऽन्यथाऽ. न्यथावस्थानलक्षणं परिणाममिच्छति / लक्षणान्यथिको' भदन्तघोषक इह पश्यत्यतीतो धर्मोऽतीतलक्षणेन युक्तोनागतप्रत्युत्पन्नलक्षणाभ्यामवियुक्तः, एवमनागतप्रत्युत्पन्ना वपि। यथा पुरुषः cf. ते भावलक्षणावस्थाऽन्यथाऽन्यथिकसंजिताः / तृतीयः शोभनोऽध्वानः कारित्रेण व्यवस्थिताः॥ Ak. v. 26. 2 The following Adv., containing the views of the four Acharys. is almost identical with Akb. v. 26 3 Cf. तत्र धर्मस्य धर्मिणि वर्तमानस्यैवाध्वस्वतोतानागतवर्तमानेषु भावान्यथात्वं भवति न तु द्रव्यान्यथात्वम / यथा सुवर्णभाजनस्य भित्त्वाऽन्यथाक्रियमाणस्य भावान्यथात्वं भवति न सूवर्णान्यथात्वमिति / ... Yoga-bhashya, III. 13. 4 एषां तु प्रथमः परिणामवादित्वात् सांख्यपक्षे निक्षेप्तव्यः / Akb. v. 26 ab.. - 5 Cf. लक्षणपणिामो धर्मोऽध्वसु वर्तमानोऽतीतलक्षणयुक्तोऽनागतवर्तमानाभ्यां लक्षणाभ्यामवियुक्तः / तथा वर्तमानो तथानागतो"। यथा पुरुष एकस्यां स्त्रियां रक्तो न शेषासु विरक्तो भवतीति / Yoga-bhashya, III. 13.