________________ 297.] . पञ्चमोऽध्यायः। 253 ]297] प्रजातैर्माण (न) सैरेतैः सर्वत्रान्यः स्वकाध्विकैः / सर्वत्राजैस्तथा शेषैः संयुक्ता स्कन्धसन्ततिः // ' __यथा(त्रा)प्रहीणा इति वर्तत (ते)। यस्य खलु योऽतीतः क्लेशप्रकारः प्रहीणोऽनागतोऽपि / अतो ये मानरागदयो नागता न प्रहीणास्तैः सर्वस्मिस्त्रयध्विके वस्तुनि संयुक्तः। तदालम्बनानामुत्पत्तिसंभवान्मानसानां च त्रयध्वविषयत्वात् / अतोऽन्य रागादिभिरनागत रणा(ना)गत एव वस्तुनि संयुक्तोऽतीतैरतीत एव प्रत्युत्पन्नः प्रत्युत्पन्न एव / मानसेभ्यो ह्यन्ये पञ्चविज्ञानकायिकाः / ततः सिद्धं भवत्यतीतप्रत्युत्पन्नैरपि मानसरस्वाध्विकेऽपि वस्तुन्यप्रहीणः सं[V. B, 6. Fol. 108 a] युक्तः स्यान्न च केवलं मानसरेवानागतैरेभिः सर्वत्र / किं तर्हि ? पञ्चविज्ञानकायिकरपि / अनुत्पत्तिर्मिकस्तु पञ्चविज्ञानकायिकैः सर्वत्र त्रयध्विकर्वस्तुनि संयुक्तः, तद्विषयस्यातीतानागतप्रत्युत्पन्नत्वात् / सामान्यक्लेशैस्तु दृष्टिविचिकित्साऽविद्याख्यस्त्रयध्विकैरपि सर्वस्मिस्त्रयविके वस्तुनि संयुक्तः, तेषां सामान्य क्लेशत्वाद्यावदाहीणा इत्यनुवर्तते / कथं पुनर्गम्यतेऽतीतादिषु वस्तुषु रागादय उत्पद्यन्ते तश्च तत्र संयुक्तो भवतीति ? सूत्रादेव हि / भगवतोक्तम्-"त्रयश्छन्दरागस्थानीया धर्माः / अतीताश्छन्दरागस्थानीया धर्माः, अनागतप्रत्युत्पन्नाः। अतीतांश्छन्दरागस्थानीयान्धर्मान्प्रतीत्योत्पद्यते च्छन्दः। उत्पन्ने च्छन्दे संप्रयुक्तस्तैर्धमै . क्लेशाश्च दृष्टिविचिकित्साऽविद्याः। Akb. v. 22.-'स्वलक्षणक्लेशाच' इति स्वलक्षणं सुखवेदनीयादि वस्तु / तत्र रागः सुखवेदनीयमेव वस्त्वालम्ब्यो पद्यत इति स्वलक्षणक्लेश इत्युच्यते / तेन सुखवेदनीयेन वस्तुनालम्ब्यमानेनोन्नतिर्भवतीति मानोऽपि स्वलक्षणवलेशः / तथा दुःखवेदनीयं वस्त्वालम्ब्य प्रतिघ उत्पद्यत इति प्रतिघोऽपि स्वलक्षणक्लेश इत्युच्यते / 'सामान्यक्लेशाश्च' दृष्टिविचिकित्सादयः, सामान्याः सामान्येन वा क्लेशाः सामान्यक्लेशाः / एते ह्यविशेषेण सुखवेदनीयादिके वस्तुन्युत्पद्यन्त इति / अतस्तदालम्ब्योत्पन्नाः सामान्यक्लेशा इत्युच्यन्ते / Sakv. p. 467. V. supta, p. 240, n 4. 1Cf, सर्वत्रानागतैरेभिर्मानसः स्वाधिके परैः। अजः सर्वत्र शेषस्तु सर्वैः सर्वत्र संयुतः // Ab. v. 24. 2 'तैरनुत्पत्तिमिभिः सर्वत्र वस्तुनि त्रयध्विके संयुक्तः / ' एते ह्यनुत्पत्तिमिणोऽनागत एवाध्वन्यवतिष्ठन्ते / एषां चालम्बनानि संचरन्ति / ससंप्रयोगा हि क्लेशाः सुवर्चलावदनुत्पत्तिधर्मिणो - विषयाभिमुखा एवावतिष्ठन्ते। तथा ह्यनुत्पत्तिधर्मिणो नैवालम्बनमालम्ब्योत्पद्यन्त इति / अतः केषाञ्चिदालम्बनमतीतम् / केषाञ्चिद्वर्तमानम् / केषाञ्चिदनागतं भवति / न ह्यालम्बनानुत्पत्तित एव तेषामनुत्पत्तिः। कि तहि ? प्रत्ययवैकल्यात् / अवस्थाफलं हि सामग्र्यं न द्रव्यफलमिति सिद्धान्तः / Sakv. p. 468.