________________ 246 . अभिधर्मदीपे [298 'सर्वेऽपि निवतानाकृता मलाः।" समाधिसमापत्त्युपहतत्वा[त्] न शक्नुवन्ति निवर्तयितुम् / कुशलास्तु धर्मा अव्याबाधफलत्वाद्विपाकं जनयिः तुमुत्सहन्ते।। [290] कामेष्वकुशलाः शेषाः सत्कायान्तहिदृष्टितत्संप्रयुक्ताऽविद्यावजिता: क्लेशाः कामधाताव. कुशलाः, सव्याबाधफलनिवर्तकत्वात् / एभ्यः पुनः कत्यकुशलमूलानि कति नेति ? तदुच्यते--- रागद्वेषतमांस्यतः। त्रीण्येवाशुभमूलानि पञ्चकारणयोगतः // 3... ये धर्मा अकुशलाश्चाकुशलमलं च दर्शनभावनाहेयाश्च पञ्चप्रकाराश्च षड्विज्ञानकायिकाश्च" त एवाकुशलमूलानीष्यन्ते // . किं पुनर्यथा [s] कुशलं (लानि) अनुशयानां मूलानि सन्त्येवमव्याकृतानामपि सन्तीति ? [291] अव्याकृतद्वयस्यापि त्रीणि मूलानि तत्समाः / - अविद्या धीश्च तृष्णा च न काङ्क्षामानदृष्टयः / / "त्रीणि खल्वव्याकृतमूलानि, अव्याकृताऽविद्या तृष्णा प्रज्ञा" इति काश्मीराः। हेत्वर्थो हि मूलार्थः / अनिवृताव्याकृता च प्रज्ञा हेतुत्वेन वर्तत इत्यसावप्यव्याकृतमूलम् / विचिकित्सा नाव्याकृतमूलम् / न च मानः / / - 1 रूपारूप्यावचरास्तावत्सर्व एवाव्याकृताः। किं कारणम् / क्लिष्टानां धर्माणां दुःखविपाकः स्यात् / तच्च तयोर्नास्ति / परव्याबाधहेत्वभावात् / Akb. v. 16 a.. 2 Cf. शेषास्त्विहाशुभाः / Ak v. 19 d. 3 Cf. कामेऽकुशलमूलानि रागप्रतिधमूढयः / त्रीण्यकुशलमूलानि / Ak. v. 20 abc. See Dhs, 1058-1061. 4 दुःख-समुदय-निरोध-मार्गदर्शनहेयाः, भावनाहेयाश्च / 5 चक्षुः-श्रोत्र-घ्राण-जिह्वा-काय-मनोविज्ञानकायाः / 6 कामधातौ सर्वरागः प्रतिघः सर्वो मोहोऽन्यत्र सत्कायान्तग्राहदृष्टिसंप्रयुक्ता यथाक्रमम् / 'यद्धि अकुशलं चाकुशलस्य च मूलं तदेवाकुशलमूलमिष्टम् / 'Abb. v. 20 bc. See Dhs. 1062-1070. Cf. तृष्णाऽविद्या मतिश्च सा। Ak. v. 20 d.