________________ पञ्चमाध्याय द्वितीयपादः। अथैषामष्टानवतेरनुशयानां कत्यकुशलाः कत्यव्याकृताः? तदारभ्यते[289] पाद्यं दष्टिद्वयं कामे निवृताव्याकृतं मतम् / धातुद्वये तु सर्वेऽपि निवृताव्याकृता मलाः // 2 / कामधातौ तावत् / सत्कायान्ताहदष्टी तत्संप्रयुक्ताविद्ये निवृताव्याते। सत्कायदष्टिस्तावद्दानशीलभावनाभिरविरुद्धत्वात्कुशलमलसमुच्छेदवैरोधिकत्वाच्च नाकुशला। विपरीताकारत्वान्न कुशला। तृष्णावदकुशलेति चेत् / 3 न। तृष्णाप्रकर्षे सर्वाकार्यप्रवृत्तिदर्शणा (ना) त् / अन्ताहदष्टिरपि जन्मोच्छेदप्रवृत्तत्वानिर्वाणविरोधिनी संवेगानुकूला चेति माकुशला। यथोक्त भगवता-"येयं दृष्टिः सर्वं मे न क्षमत इतोयं दृष्टिरसंरागाय न संरागाय" इति / तथोक्तम्- इदमग्रय बाह्यकानां दृष्टिकृतानां यदुत नो ‘च स्यान्न च मे स्यान्न भविष्यामि न मे भविष्यति" इति / रूपारूप्यधात्वोः .. 1 क्लेशा अपि द्विविधाः / अकुशला निवृताव्याकृताश्च / अकुशलेभ्यो विशेषार्थमाह निवृताव्याकृतैरिति / न हि निवृतेन विज्ञानेनाकुशलानां संप्रयोगो भवति / निवृताः क्लिष्टत्वात् / अव्याकृताः कुशलाकुशलत्वेनाव्याकरणात् / Tvb. 6 ab. 2 Cf. ऊर्ध्वमव्याकृतं सर्वे कामे सत्कायदर्शनम् / अन्तग्राहः सहाभ्यां च मोहः शेषास्त्विहाशुभाः // Ab. v. 19. 3 सहजा सत्कायदृष्टिरव्याकृता या मृगपक्षिणामपि वर्तते / विकल्पिता स्वकुशलेति पूर्वाचार्याः / Akb. v. 19 c.-'विकल्पिता त्वकुशला' इति / य आत्मवादिभिः कपिलोलूकादिभिर्विकल्पिता सा नाव्याकृता। किं तहि / अकुशलेति / अन्तग्राहदृष्टिरपि या तैविकल्पिता साऽप्यकुशला / Saks. p. 453. __4 Cf. सन्त'ग्गिवेसन एके समणब्राह्मणा एवं वादिनो एवं चिट्ठनो-सब्बं मे खमती ति / सन्ति'""सब्बं मे न खमती ति / सन्ति"एकच्चं मे खमति एकच्चं मे न खमती ति / तत्राग्गिवेसग ये ते" एवंदिट्टिनो-सब्बं मे खमती ति""सब्बं मे न खमती ति, तेसमयं विट्ठ सरागाय सन्तिके संयोगाय सन्तिके अभिनन्दनाय सन्तिके अज्झोसनाय सस्तिके उपादानाय सन्तिके / "" M. Sutta 74. 5 Cf. इध भिक्खवे भिक्खु एवं पटिपन्नो होति, 'नो च' स्स, नो च मे सिया, न भविस्सति, न मे भविस्सति, यदत्थि यं भूतं तं पजहामी ति" Ang. iv. p. 70.