________________ 292. . 247 पञ्चमोऽध्यायः / [292] चलत्वादूर्ध्ववृत्तित्वादव्यापित्वाद्यथाक्रमम् / ' 'चला हि विचिकित्सा प्रतिष्ठार्थश्च" मूलार्थः। ऊर्ध्ववत्तिरुन्नतलक्षणो मानः, अधोगमनवृत्तीनि च मूलानि / न चैतौ क्लेशौ षविज्ञानकायिको / तस्मादव्यापित्वान्न मूलेषु व्यवस्थाप्येते / अव्याकृता[:] तृष्णादृष्टिमानाविद्या इति बहिर्देशीयकाः, ध्यायिसू. त्रोक्तः / / त्रयो हि ध्यायिनः-तृष्णादृष्टिमानोत्तरध्यायिभेदात् / सर्वे च तेऽविद्यावशाद्भवन्तीति चत्वार्ये व इति / एतच्च न ते / कस्मात] ? सूत्रस्यार्थापरिज्ञानादहेतुायिचोदनात् // या काचिदव्याकृता तृष्णा अविद्या प्रज्ञा चान्ततो विपाकजाऽपि सर्वाऽसावव्याकृतमूलमिति काश्मीराः। Akb, v:20 d. . 'अव्याकृतमूलानि' इति / अनेनाव्याकृतशब्देन केवलेन तृष्णाऽविद्यामतयो विशेषिता इति दर्शयति / अत्र च मतिरक्लेशस्वभावाऽप्यव्याकृतमूलमितीष्यते वैभाषिकः। 'या काचिदव्याकृता तृष्णा' इति। आस्वादनासम्प्रयुक्तेषु ध्यानारूप्येषूपपत्तिकाले वा विमानादिषु सम्भवतः / या काचिदविद्या रूपारूप्यधात्वोः कामधातौ च सत्कायान्तग्राहदृष्टिसंप्रयोगिणीति / एवं प्रज्ञा च या काचिदव्याकृता / अन्ततो विपाकजाऽपि। कामधातो विपाकजैर्यापथिकशैल्पस्थानिकनिर्माणचित्तसंप्रयुक्ता सत्कायान्तग्राहदृष्टिसंप्रयुक्ता च रूपारूप्यधात्वोः सर्वक्लेशसंप्रयुक्ता प्रज्ञा / Sak v. p. 464. 1 Cf. द्वघोद्धर्ववृत्तातोऽन्यौ। Ak. v. 21 a. 2 Cf. चत्वार्यवेति बाह्यकाः। तृष्णाङमानमोहास्ते ध्यायित्रित्वादविद्यया // Ak. v. 21 bcd. . 'बाह्य काश्चत्वार्यव्याकृतमूलानीच्छन्ति "अव्याकृता तृष्णा दृष्टिर्मानोऽविद्या च / .... यस्मात् त्रयो ध्यायिनः, तृष्णादृष्टिमानोत्तरध्यायिनः। ते चाविद्यावशाद्भवन्तीति / - Abb. v. 2 ___'अव्याकृता तृष्णा' इति / रूपारूप्यघात्वोः। दृष्टिरपि तयोश्च कामधातो च सत्कायान्तग्राहदृष्टिस्वभावा / अविद्याऽपि कामधातौ तत्संप्रयोगिण्येव / रूपारूप्यधात्वोश्च सर्वा / 'तृष्णादृष्टिमानोत्तरध्यायिनः' इति / य आस्वदनासंप्रयुक्तध्यानध्यायी स तृष्णो. तरध्यायो। यो ध्याननिश्रयेण शाश्वतादि दृष्टिमुत्पादयति / स दृष्ट्युत्तरध्यायी। मानोत्तरध्यायी च / यस्तेन मन्यते लाभ्यहमस्य ध्यानस्य नान्ये तथेति स मानोत्तरध्यायी।" ते चाविद्यावशाद्भवन्तीति / ते च त्रयो यायिनोऽविद्यावशादविद्यायोगात्तथा भवन्ति / अतोऽविद्याऽप्यव्याकृतमूलमिति / समापत्तिसमापन्नानां च एताः क्लेशसभुदाचारावस्थाः अव्याकृतानां धर्माणां मूलं कारणमिति / Saks. p. 464. Cf. तत्थ कमतो झायी ? अत्यि"विठ्ठत्तरो झायो, तण्हुत्तरौ झायी, पञ त्तरो wrot fa Netti. p. 76. See Vbh. p. 342.