________________ 242 अभिधर्मदीपे [284. स्वभूमिनिरोध एव निरोधालम्बनानां [v. A, 4. Fol. 106 b.] मिथ्यादृष्टयादीनामालम्बनम् / कामावचराणां कामावचरणि(नि)रोधः। एवं यावद्भवाग्रभूमिकानां भवाग्रस्यैव। मार्गालम्बनानां तु कामावचराणां सर्व एव स्वभूमिकाः क्लेशाः मार्ग आलम्बनम् / योऽप्यसौ रूपारूप्यप्रतिपक्षः, रूपारूप्या. वचराणामप्यष्टमूमिकाणां(नां) मिथ्यादृष्टयादीनां नवभूमि-कोऽन्वयज्ञानपक्ष्यो' मार्ग आलम्बनः / किं पुनः कारणं मिथ्यादृष्टया निरोधः परिच्छिन्न आलम्ब्यते, न मार्गेण ? तदुच्यते / 'हेतुत्वाद्धेतुभावतश्च / ' मार्गो हि परस्परहेतुकः, न तु निरोध इत्यस्ति विशेषः / / अथ कस्माद्रागप्रतिघमाना दृष्टिशीलव्रतपरामर्शो च नानास्रवालम्बना इष्यन्ते ? तत्रापदिष्यते[284] न रागः शक्त्यहेतुत्वान्न द्वेषो[5] नपराधतः / / न मानोऽतिप्रशान्तत्वान्न भावत्वाद् दृशोऽपराः // 3 तत्र रागस्तावद्यद्यनास्रवालम्बनः स्यानिर्वाणाभिलाषप्रवृत्तत्वात्कुशलधर्मच्छन्दवत्, न योगिणां(नां) वर्जनीयः स्यात् / द्वेषोऽप्यपकारवस्तुन्यु. त्पद्यते, मोक्षस्तु सर्वदुःखोपरमादुपकारी। मानोऽप्यप्रशान्तत्वादुन्नतिलक्षणः, निर्मलास्तु धर्मास्तदपघातिनः / परामर्शी च यद्य नास्रवालम्वनौ स्यातां सम्यग्दृष्टित्वं प्रतिपद्येयाताम् / तस्मात्पूर्वोक्ता एवानुशया निर्मलगोचराः / / अर्थतेषामष्टानवतेरनुशयानां कत्यालम्बनतोऽनुशेरते कति संप्रयोगतः ?' 1 अन्वयज्ञानपक्ष्यः पुनर्नवभूमिकः-- अनागम्यध्यानान्तर चतुर्ध्यान-आकाशविज्ञानाकिञ्चन्यायतनभूमिकः / स सर्व एव प्रथमध्यानभूमिकानां एषां त्रयाणामनुशयानामालम्बनम् / एवं यावद् भवानभूमिकानामिति / Saks. p. 461. - 2 Cf. कस्मात्पुनः स्वभूमिनिरोध एव तद्गोचरावलम्बनम्, मार्गस्तु षड्भूमिकोऽपि नवभूमिकोऽपि वा तेषामालम्बनमित्यत्र हेतुं दर्शयति / 'मार्गों हन्योन्यहेतुकः' इति / कथमन्योन्यहेतुकः / षड्भूमिको धर्मज्ञानपक्ष्यो मार्गोऽधरभूमिकस्योर्वभूमिकस्य वा समस्य विशिष्टस्य वा धर्मज्ञानपक्ष्यान्तरस्यान्वयज्ञानपक्ष्यस्यापि च मार्गस्य हेतुर्भवति / सोऽपि तस्यान्वयज्ञानपक्ष्य नवभूमिको योज्यः / Saks. p. 461. See Akb. II. 52 cd. 3 Cf. न रागस्तस्य वय॑स्वान्न द्वेषोऽनपकारतः / न मानो न परामशौ शान्तशुद्धयग्रभावतः / Ak v. 16. 4 न वर्जनीयः स्यादिति / न प्राप्तिच्छेदेन प्रहेयः स्यादित्यर्थः / Saks. p. 4 2. 5 य आलम्बनतोऽनुशेरते तेऽवश्यं सम्प्रयोगतोऽनुशेरते। ये तु संप्रयोगत एवानुशेरते ते नालम्बनतोऽनास्रवविसभागभूम्यालम्बना अनुशया इति / Ibid. .