________________ 241 283.] .. पञ्चमोऽध्यायः। अत्र पुनः - [281] नवोर्ध्वधातुकास्तेषामाद्या दृष्टिद्वयादृते / ' सत्कायान्ताहदृष्टी हित्वाऽन्ये नव विसभागधातुसर्वत्रगाः / 2 किं पुनरणु (नु) शया एव सर्वत्रगाः ? नेत्याह / किं तर्हि ? तेषां सहभुवो धर्माः प्राप्तिवयाश्च सर्वगाः // ये सर्वत्रगानुशयसहभुवो वेदनादयो धर्माः, जात्यादयश्च ते हि(ऽपि) सर्वत्रगास्तदेकफलत्वात् // तेषां पुनरष्टानवतीनामनुशयानां कति सास्रवालम्बनाः कत्यनास्रवालम्बनाः ? तदारभ्यते[282] काङ्क्षामिथ्यादगाभ्यां च मिश्राऽविद्याथ केवला। निरोधमार्गदृग्घेयाः षडेते निर्मलेक्षिणः // निरोधमार्गदर्शनहेया मिथ्यादष्टिविचिकित्सा तत्संप्रयुक्ता चाविद्या सहावेणि क्याऽविद्यया / इत्येते धातौ धातो षडनुशया अनास्रवालम्बनाः / शेषाः सास्रवालम्बनाः / / . अर्थते निर्मलालम्बनाः कति कत्युपरममालम्ब्यन्ते, कति भूमिप्रतिपक्ष च ? तदुच्यते.. [283] स्वभूमेरेव निर्वाणं मार्गस्थ (र्गः ष)न्न (ण)वभूमिकः / तदृश्यविश (ष) योऽन्योऽन्यो हेतुत्वाद्धेतुभावतः // 3 1cf. नवोलिम्बना एषां दृष्टिद्वयविवजिताः / Ak. v. 13 ab. 2 The Akb. here discusses one more point : यदा कामधातौ स्थितो ब्रह्मणि सत्त्वदृष्टि नित्यदृष्टि चोत्पादयति / तदा कथं सत्कायान्तग्राहदृष्टी विसभागधात्वालम्बने न भवतः ? Akb. v. 13 ab. 3 Cf. प्राप्तिवाः सहभुवो येऽप्येभिस्तेऽपि सर्वगाः। Ak, v. 13 cd. प्राप्तयस्तु नैवम् / अनेकफलत्वात् / Akb. V. 13 cd. 4 Cf. मिथ्यादृग्विमती ताभ्यां युक्ताऽविद्याऽय केवला। निरोधमार्गदृग्धेयाः षडनास्रवगोचरा: // Ak. v. 14. 5 त्रयो निरोधदर्शनप्रहातव्या अनास्रवालम्बनाः। एवं मार्गदर्शनप्रहातव्या अप्येत एव त्रय इति षट् / Saks. p. 460. 6 Cf. स्वभूम्युपरमो मार्गः षड्भूमिनवभूमिकः / तद्गोचराणां विषयो मार्गो ह्यन्योऽन्यहेतुकः // Ak. v. 15.