________________ 240 अभिधर्मदीपे [280. द्विप्रकारा इत्येकादशानुशया धातौ धातो स्वधातुभूमिसर्वत्रगा' ज्ञेयाः / सकलस्वधातुभूम्यालम्बनत्वात् / एते च परिपिण्डय त्रयस्त्रिशत्सर्वत्रगा भवन्ति / / .. एते पुनः सर्वत्रगाः [279] द्रव्यतो दश चैकश्च नाम्ना सप्त तु ते मताः / तिसृणामप्यविद्यानां द्वयोश्च वि चिकित्सयोरेकणा (ना) मत्वात् / अथ कस्माद्रागप्रतिघमाना न सर्वत्रगाः ?3 तदुच्यते रागप्रतिघमानास्तु परिच्छेदप्रवर्तिणः(नः) // एते खलु स्वलक्षणक्लेशा: प्रतिक्लेशमनवयवं चालम्ब्योत्पद्यते / तस्मान्न सर्वगाः / / विचिकित्साद्यास्तु [280] प्रकारान्तरवर्तित्वात्सकृत्सर्वस्वभूगतिः / धात्वन्तरावलम्बित्वात्पूर्वोक्ता एव 'सर्वगाः // 1 सभागधातुसर्वत्रगाः in Akb. V. 12. . 2 सकलस्वधात्वालम्बनत्वात् in Akb. V. 12. यस्मादेते सकलं स्वधातुमालम्बन्ते तस्मात्सर्वत्रगा इत्युच्यन्ते / Saku. p. 458. After this, the akb. deals with one more topic : किमेभिर्युगपदालम्बन्ते, आहोस्वित् क्रमेण ? V infra, Ad. karika 278-9. 3 Cf. सर्वसंयोजनेषु रागद्वेषमानेतराणि सर्वत्रगाणि। तत्कस्य हेतोः। तेषां पञ्चालम्बन[हेय]त्वात् / Aam. p. 79. 4 Cf. इतीमे एकादशानुशयाः सभागधातुसर्वत्रगाः / "सकलस्वधात्वालम्बनत्वात् / किमेभिर्युगपदालम्बते आहोस्वित् क्रमेण ? यदि क्रमेण अन्येषामपि प्रसंगः। अथ युगपत् कः सकलेन कामधातुना शुद्धिं प्रत्येत्यकारणं वा कारणतः / सकलं नोच्यते सकलं युगपदालम्बन्त इति / अपि तु पञ्चप्रकारमपि सर्वं युगपत् / एवमपि यत्रात्मदृष्टिस्तत्रात्मतृष्णा यत्राग्रशुद्ध दृष्टी तत्र तत्प्रार्थना तेन च मान इति तृष्णामानयोरपि सर्वत्रगत्वं प्राप्नोति / "स्वलक्षणक्लेशावेतौ न सामान्यक्लेशो / तस्मान्न सर्वत्रगाविति वैभाषिकाः / Akb. V. 12. वैभाषिक इदानी स्वपक्ष स्थापयति 'स्वलक्षणक्लेशावेतौ न सामान्यक्लेशी भवतः, तस्मान्न सर्वत्रगौ' इति / यत्रात्मदृष्टिस्तत्र तृष्णामानौ / न तु युगपत्सर्वस्मिन् / स्वलक्षणक्लेशत्वात् / एकदेशालम्बना हि तौ। तस्मान्न सर्वत्रगौ। न चेत्सर्वत्रगौ तेन यो यद्दर्शनहेयालम्बनी तो तद्दर्शनहेयौ, परिशिष्टौ भावनाहेयाविति सिद्धम् / Saku. p. 459.