________________ 277.] पञ्चमोऽध्यायः / 239 किं पुनरत्र कारणं यदेते [s]प्रहीणा: खल्वपि सन्तो नार्यस्य समुदा'चरन्ति ? शून्यतायाः सुभावितत्वात्कर्मफलसंबन्धयुक्तेश्च विदितत्वात्, दृष्टिपुष्टत्वाच्च / / तत्र मानविधा अस्मिमानश्च सत्कायदृष्टिपुष्टाः / वधादिपर्यवरथानं मिथ्यादृष्टिपुष्टम्। विभवतृष्णोच्छेददृष्टिपुष्टा। भवतृष्णाप्रदेशः शाश्वतदृष्टिपुष्टः। इति विधादयस्तत्पोषा(ष)कवलेशाभावादार्यस्य नोत्सहन्ते सन्तानमध्यारोढुम् / कोकृत्यमपि चाकुशलमवीतरागस्यार्यस्यापहीणं न चास्य तत्संभवति चिकित्सासमुत्थितत्वादिति // अथानुशयाः सर्वत्रगाः कस्मात्क्लेशनिकाया व्यवस्थाप्यन्ते ? तदारभ्यते [277] दुःखात्समुदयाच्चैव सर्वगानां व्यवस्थितिः / दुःखसमुदयदर्शण (न) प्रहातव्याः खल्वनुशयाः सर्वगाः / यस्मात् तदृष्टिहेयजातीनां सर्वासां द्विपदस्थितेः / / द्वयोः खलु निकाययोः दुःखसमुदयाख्ययोस्तदर्शण (न)हेयाना (णां) वक्ष्यमाना (णा)नां वलेशानामुभयत्र लब्धप्रतिष्ठत्वात् / / किं पुनः सर्वे दुःखसमुदयहेयाः न हेयाः सर्वत्रगाः ? नेत्याह / किं तर्हि ? [278] काङ्क्षा पञ्च दशोऽविद्या तद्वयामिश्राऽथ केवलाः / ____ सप्त सर्वत्रगा दुःखाद्धेनोरेभ्यश्चतुष्टयम् / / सप्तदष्टयो३ द्वे विचिकित्से ताभिश्च संयुक्ताऽविद्या आवेणिकी' च . . 1 'सर्वत्रगाः' इति / सर्वत्र गच्छन्तीति सर्वत्रगाः / पञ्चापि निकायानालम्बत इत्यर्थः / पञ्चानामपि निकायानां हेतुभावेनावतिष्ठन्त इत्यपरे / Salev p. 458.. Also cf. सर्वत्रगार्यः कतः। तथा हि तृष्णा वस्तुसर्वत्रगा अवस्थासर्वत्रगा अध्वसर्वत्रगा धातुसर्वत्रगा एषणापर्वत्रगा प्रकारसर्वत्रगा च / Asm. p. 4 . 2 CI. सर्वत्रगा दुःखहेतुदृग्घेया दृष्ट यस्तथा। विमतिः सह ताभिरच याऽविद्याऽऽवेणिकी च या // Ak. V. 12. 3 सप्तदृष्टयो दुःखदर्शनप्रतिव्याः सत्कायदृष्टयादयः पञ्च। समुदयदर्शनप्रहातव्ये द्वे दृष्टी मिथ्यादृष्टिपरामर्शदृष्टीति सप्त / Sake p. 4 58. 4 द्वे विचिकित्से दुःख-समुदयदर्शनप्रहातव्ये / Ibid ___5 प्रावेणिकीति कोऽर्यः ? एवमाहुः। सम्पर्को वेणिरित्युच्यते। न वेणिरवेणिः / पृथग्भाव इत्यर्थ / 'अवेण्या चरतीत्यावेणिकी / नान्यानुशयसहचारिणीत्यर्थः। Ibid. See Aam. pp. 8-9 and Asm. p. 51.