________________ 287.] पञ्चमोऽध्यायः। [285] सर्वगोऽनुशयः कृत्स्नामनुशेते स्वधातुगः। स्वामालम्बनतो भूमि स्वनिकायं त्वसर्वगः // ' द्विविधाः खलु सर्वगाः। स्वधातुभूमिसर्वगाः, वि सभागधातुभूमिसर्वगाश्च / असर्वगा अपि द्विविधाः / सास्रवालम्बनाः, अनास्रवालम्बनाश्च / तत्र ते२ येऽनुशयाः स्वधातुभूमिसर्वत्रगास्ते सकलामेव पञ्चप्रकारां स्वधातुभूमिमालम्बनतोऽनुशेरते। ये त्वसर्वत्रगाः सास्रवालम्बनास्ते स्वभूमौ स्वनिकायमालम्बनतोऽनुशेरते। दुःखदर्शण (न)प्रहातव्याः दुःखदर्शण (न) प्रहातव्यमेव निकायं यावद्भावनाप्रहातव्या भावनाप्रहातव्यमेवेति / / आलम्बनतश्च [286] अस्वीकाराद्विपक्षत्वान्नोर्ध्वभूमार्गगोचरः / 3 आलम्बनतोऽनुशेरत इति वर्तते। किं कारणम् ? अन्यभूमिकस्यानास्रवस्य च वस्तुनः 'अस्वीकाराद्विपक्षत्वा'च्च। आत्मदृष्टितृष्णाभ्यां हि स्वीकृते वस्तुन्यनुशयोऽनुशयितुमुत्सहते। अना" स्रवे तु वस्तुन्यूलभूमिक (के) च प्रवृत्तिरेव सत्कायदृष्टितृष्णयोर्नास्तीति न (न) तत्रानुशेरते। . संप्रयोगिनि (णि) तुं स्वस्मिन्नहीने संप्रयोगतः // अनुशेरत इत्यधिकृतम् / यो येन धर्मणानुशयः संप्रयुक्तः स तस्मिन्संप्रयोगिणि संप्रयोगतोऽनुशेरते यावदाहीणो भवतीति 'तु' शब्दो विशिनष्टि / ततश्चेदमपि सिद्धं भवति-अनास्रवालम्बना विसभागधातुभूम्या. लम्बनाश्च संप्रयोगत एवानुशेरते। सास्रवालम्बनाः स्वभूमावालम्बनतः संप्रयोगतश्चेति // कुतः पुनरेतेऽनु शया उच्यन्ते ? तदुच्यते / प्रागाविष्कृतमेतत्प्रसङ्गागतं न तु सूत्रितमित (ति) / तदिदानीं सूत्रगतं प्रदर्श्यते / [287] धात्रीवस्त्रमलन्यायः खचराम्बुचरक्रमः / ए"तेऽनुशेरते यस्मात्तस्मादनुशयाः स्मृताः // . 1 सर्वत्रगा अनुशयाः सकलामनुशेरते। स्वभूमिमालम्बनतः स्वनिकायमसर्वगाः || Ak. v. 17. ? This a is not required. 3 Cf. नानासवोर्ध्वविषया अस्वीकाराद्विपक्षतः। Ak. v. 18 ab. 4 Cf. येन यः संप्रयुक्तस्तु स तस्मिन्संप्रयोगतः। Ak. v. 18 cd.