________________ 235 274.] पञ्चमोऽध्यायः। इति / ननु सत्कायदष्टेरर्धात्प्राप्नोति ?' 'न / दष्ट्यन्तरत्वात् / शाश्वत. दष्टेरुच्छेददष्टिर्दष्टयन्तरम् / पुरुषमेव त (तु) स्वतन्त्रं कर्तारं वशिनमात्मवादी मन्यमानो ममेदमित्यभ्युपगच्छति तस्मादात्मदृष्टिरेवासौ। यदि च ममेत्येतद् दृष्टयन्तरं स्यान्मया मह्यमित्येवमाद्यपि दृष्टयन्तरं स्यात् / तस्मादहंकारपर्याया एवैते द्रष्टव्याः / / ननु च सर्वे क्लेशा विपर्यासा: [V. A, 3. Fol. 105b.] 'विपरोतप्रवत. त्वात् ? तत्किमुच्यते चत्वार इति ? 2 नैष दोषः / यस्मात् [274] नितीरणसमारोपविपरीतप्रवृत्तितः / ___ विपर्यासोक्तिरेष्वेव दृग्वषा (शात्) चित्तसंज्ञयोः // 3 विपरीततो नितीरणात्समारोपादेकान्तविपर्यासाच्च / न ह्येतदन्येषां क्लेशानां समस्तमस्ति / मिथ्यादृष्टयुच्छेददृष्टी यद्यपि नितीरयतः, एकान्त. विपर्यस्ते च, न तु स मारोपिके द्रव्यनाश प्रवृत्तत्वात् / शीलव्रतपरामर्शो नेकान्तविपरीत: कामवैराग्यादिसंभवात् / अन्ये क्लेशा न सन्तोरकाः। इति चत्वार एव / 1 Cf. सत्कायदृष्टेरात्मदृष्टिरात्मविपर्यासः / सकलेत्यपरे। कथमात्मीयदृष्टिविपर्यासः ? कथं च न विपर्यासः / विपर्यास सूत्रात् / आत्मानमेव तत्र वशिनं पश्यन्नात्मीयं पश्यतीत्यात्मदष्टिरेवासौ द्विमुखी। अथाहमित्येतस्मात् ममेति दृष्टयन्तरं स्यात, मया मामेतदपि स्यात् / Akb. v. 9 ab. दृष्टित्रयस्वभावा विपर्यासा इति दर्शयति / 'सत्कायदृष्टेरात्मदृष्टिः, आत्मविपर्यासः' इति / नात्मीयदृष्टिरित्यभिप्रायः / 'सकलेत्यपरः' इति सकला सत्कायदृष्टि: आत्मदृष्टिरात्मीयदृष्टिश्चात्मविपर्यास इत्यर्थः / . वैभाषिक आह-'कथमात्मीयदृष्टिविपर्यासः' इति ? न ह्यात्मीयविपर्यास इत्युच्यते / कथं च न भवितव्यमिति परः / विपर्याससूत्रादिति वैभाषिकः / अनात्मनि आत्मेति विपर्यास इति सूत्रवचनात् / न पुनरात्मीय इति / अस्त्येवं सूत्रनिर्देशः / न पुनरसावात्मवृष्टेरन्तिरभता। कथं कृत्वा / आत्मानमेव तत्र' पञ्चोपादानस्कन्धेषु 'वशिनं पश्यन्नात्मीयं पश्यति' इति / न केवलमात्मानं पश्यत्यात्मीयमपि पश्यतीत्यर्थः / 'आत्मदृष्टिरेवासो द्विमुखो'ति / आत्मात्मीयमुखी एका द्रव्यतोऽस् नीति अहंकारममकारमुखद्वय वतीत्यर्थः / तस्मात्सकलेति सिद्धम्। Saks. P. +54. See Aaa. p. 2.0. 2 Cf. 'कस्मादन्ये क्लेशा न विपर्यासाः' इति ? सत्कायदृष्ट्यन्तग्राहदृष्टिपरामर्शभ्योऽन्ये उच्छेदमिथ्यादृष्टिशील व्रतपरामशंरागादयः / Saks. p. 454. 3 Cf. नितोरणात्समारोपात संज्ञा चित्तं तु तद्वशात् / Ak. v. 9 cd, 4 अभावमुखप्रवृत्तत्वात् / Akb. v. 9 c. 5 तन्मात्रशुद्धयालम्बनत्वात् ! Ibid.