________________ 236 अभिधर्मदीपे [ 275. ननु च सूत्र उक्तम्-"आनित्ये नित्यमिति संज्ञाविपर्यासः, चित्तविपर्यासो दृष्टिविपर्यास एवं यावदात्मनि" इति द्वादश भवन्ति / ' नैष दोषः / नहि संज्ञाचित्ते नितीरके। तस्माच्चतुर्वेव दृष्टि स्वभावेषु विपर्यासोक्तिः / 'दृग्वशात् चित्तसंज्ञयोः' तदुक्तिरिति / संज्ञा हि लोककार्यव्यवहारपतिता दर्शण(न)वशाद्विपर्यस्तमालम्बननिमित्तमुद्गृह्णाति / चित्तं च तद्वशानुवर्तीति तयोरेव ग्रहणम् / लोकेऽपि विपर्यस्तसंज्ञो विपर्यस्तचित्तश्चोच्यते न विपर्यस्तवेदनो विपर्यस्तचेतन इति / / अथ किं दृष्टयनुशयवत् माना नुशयस्यापि कश्चिद्भेदोऽस्ति ? विद्यत इत्याह / कथमित्यादयते[275] सप्त मानविधास्त्रिभ्यो नव मानविधास्त्रिधा। .. त्रिधाऽत्युन्नमनादिभ्यः स्वोत्कर्षाद्यस्ति नास्तिता / / 3 तदस्य श्लोकस्य संक्षेपविस्तारव्याख्याप्रभेदोऽयमादर्यते। तत्र तावत्कर्म स्वकतासामर्थ्यसंमुग्धस्य येन केनचिद्वस्तुना चित्तस्योन्नतिर्मानः / प्रभिद्यमानः सप्तधा भव ति: मानः, अतिमानः, मानातिमानः, अस्मिमानः, अभिमानः, ऊनमानः, मिथ्यामानश्च / एतेषां प्रपञ्चो यथा प्रकरणेषु / ' 1 द्वादश विपर्यासा इति / चतुर्षु विपर्ययेषु प्रत्येक संज्ञा-चित्त-दृष्टिविपर्यास इति / Saks. p. 4 51. Cf. अनिच्चे निच्चं ति""दुवखे सुखं ति'"अनत्तनि अत्ता ति असुभे सुभं ति सञ्चाविपरियेसो, चित्तविपरियेसो दिट्ठिविपरियेसो। Vbh. p. 376... विपल्लासा ति, अनिच्च-दुक्ख-अनत्त-असुभेसु येव वत्थुसु, निच्चं सुखं अत्ता सुभं ति एवं पवत्ता, साविपल्लासो, चित्तविपल्लासो, दिट्ठिविपल्लासो ति इमे तयो। Vm. XXII. 53. 2 After this, the Kosakara gives some more details:-ते एते विपर्यासाः सर्वेऽपि स्रोतआपन्नस्य प्रहीणा भवन्ति / दर्शनप्रहेयत्वात् दृष्टीणां ससंप्रयोगाणाम् / द्वादश विपर्यासाः / तत्राष्टी दर्शनप्रहातव्याश्चत्वारो भावनाप्रहातव्याः / दुःखे च संज्ञाचित्तविपर्यासावशुचौ चेति निकायान्तरीयाः। इतरथा हि कथमन्तरेण सुखशुचिसंज्ञामवीतरागस्यार्यस्य कामरागः संभवेदिति / तदेतन्नेच्छन्ति वैभाषिकाः / Akb. v. 9a. See Sakv. pp. 455-6. See Aam. p. 128. 3 Cf. सप्त माना नव विधास्त्रिभ्य दृग्भावनाक्षयाः। Ab. v. 10 ab. 4 Cf. तत्थ कतमे सत्त मान ? मानो अतिमानो मानातिमानो ओमानो अधिमानो अस्मिमानो मिच्छामानो। इमे सत्त माना। Vbh. p. 383. See vbh A. p. 488. Dhs. 1116, Dhs A. v. 64-5, Aaa. p. 456 and Asm. p. 45. 5 Prakaranapada,XXIII. 10, fol, 13 b (see LVP Ak. v. p. 26). The Kosakara gives the definitions of the seven manas, but does not mention the Prakarana.